SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ 15 भाष्यगाथाः २१९४-२२०३] प्रथम उद्देशः । ६२९ अथ तत्र ग्रामे द्वारे स्थितेषु तेषु यस्तासां संयतीनां निरोधो भवति तदुत्थदोषदर्शनाय दृष्टान्तमाह आभीराणं गामो, गामदारे य देउलं रम्म । आगमण भोइयस्स य, ठाइ पुणो भोइओ तहियं ॥२१९९ ॥ आभीराणां कश्चिद् ग्रामः, तस्य च ग्रामस्य द्वारे देवकुलं रम्यम् , अन्यदा च 'भोगिकस्य । ग्रामस्वामिनस्तत्रागमनम् , ततः 'तत्र' देवकुले भोगिकस्तिष्ठति ॥ २१९९ ॥ महिलाजणो य दुहितो, निक्खमण पवेसणं च सिं दुक्खं । सामत्थणा य तेसिं, गो-माहिससनिरोधो य ॥ २२०० ॥ ततः 'तेषाम्' आभीराणां महिलाजनो दुःखितोऽभूत् , निष्क्रमणं प्रवेशनं च "सिं" तासां विचारादौ गच्छन्तीनां 'दुःख' दुष्करमभवत् , ततस्तेषां "सामत्थण" ति पर्यालोचनमभूत् , 10 यथा—महिलाजनस्यातीवाबाधा वर्तते, अत एनं भोगिकमुपायेनान्यत्र स्थापयाम इति । ततस्तैर्गो-माहिषस्य-गो-महिषीसमूहस्य वववत्सवियोजनस्य ग्रामाद् बहिर्नीत्वा ग्रामद्वारबन्धनेन रात्रौ सन्निरोधः कृत इति ॥ २२०० ॥ इदमेव स्फुटतरमाह विगुरुवियबोंदीणं, खरकम्मीणं तु लज्जमाणीओ। भंजति अणितीओ, गोवाड-पुरोहडे महिला ॥ २२०१ ॥ इति ते गोणीहि समं, घिइमलभंता उ बंधिउं दारं । गामस्स विवच्छाओ, बाहिं ठाविंसु गावीओ ॥ २२०२ ॥ विकुर्विता-वस्त्रादिभिरलङ्कता बोन्दिः-शरीरं येषां ते विकुर्वितबोन्दयस्तेषामेवंविधानां भोगिकसम्बन्धिनां खरकर्मिकाणां लज्जमानाः सत्यो महेला बहिरनिर्गच्छन्त्यो गोवाटक-पुरोहडानि 'भञ्जन्ति' पुरीषव्युत्सर्गादिना विनाशयन्तीत्यर्थः ॥ २२०१ ॥ 20 'इति' एवं विचार्य 'ते' आभीरा धृतिमलभमाना गोभिरात्मना सार्द्ध सञ्चारिताभिः सह बहिनिर्गत्य ग्रामस्य द्वारं बद्धवा 'विवत्साः' वत्सरहिताः केवला एव गाः उपलक्षणत्वाद् महिषीश्च ग्रामस्य बहिः स्थापितवन्तः, ताश्च तत्र स्थिताः सवत्सवियोजिता महता शब्देन सकलामपि रात्रिं विखरमारटितवत्यः, वत्सका अपि नामान्तः स्थितास्तथैव शब्दायितवन्तः ॥ २२०२॥ ततः किमभूत् ? इत्याह वच्छग-गोणीसहेण असुवणं भोइए अहणि पुच्छा। सब्भावे परिकहिए, अन्नम्मि ठिओ निरुवरोहे ॥ २२०३ ॥ तेषां वत्सकानां गवां च यः शब्दः-विखरारटनलक्षणस्तेन भोगिकस्य 'अखपन' निद्रा न समायातेत्यर्थः । ततः 'अहनि' दिवसे उद्गते सति तेन पृच्छा कृता, यथा-किमेवं रात्रौ गो-माहिषं विखरमारटत् ? । तैराभीरस्ततः सर्वोऽपि सद्भावः परिकथितः । ततोऽसौ भोगिकोs-30 न्यस्मिन् देवकुले 'निरुपरोधे' निर्व्याघाते गत्वा स्थित इति ॥ २२०३ ॥ अत्रोपनयमाह एवं चिय निरविक्खा, वइणीण ठिया निओगपमुहम्मि । १त्वा तद्दार मो० ले० ॥ 25 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002512
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 03
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages364
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy