________________
६२८
सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [वगडाप्रकृते सूत्रम् १० गच्छन्तीनां दोषानुपदर्शयितुमाह
अंतो वियार असई, अचियत्त सगार दुजणवते वा।
बाहिं तु वयंतीणं, अपत्त-पत्ताणिमे दोसा ॥ २१९४ ॥ 'अन्तः' ग्रामादेरभ्यन्तरे विचारभूमेरभावे, अप्रीतिकं वा 'सागारिकः' शय्यातरस्तत्र व्युत्स5जने कुर्यात् , 'दुर्जनवृतं वा' दुःशीलजनपरिवृतं तत् पुरोहडं ततो ग्रामादेवहिजन्तीनां स्थण्डिलमप्राप्तानां प्राप्तानां वा इमे दोषाः ॥ २१९४ ॥
वीयाराभिमुहीओ, साहुं दट्टण सनियत्ताओ।
लहुओ लहुया गुरुगा, छम्मासा छेद मूल दुगं ॥ २१९५ ॥ विचारभूमेरभिमुखं गच्छन्त्यः साधुं तत्र यान्तं दृष्ट्वा यदि सन्निवर्तन्ते तदा लघुको मासः । 10 सन्निवृत्ताः सत्यः संज्ञां धारयन्त्यो यद्यनागाढं परिताप्यन्ते तदा चतुर्लघवः । आगाढपरितापनायां चतुर्गुरवः । महादुःखे षड् लघवः । मूर्छायां षड् गुरवः । कृच्छ्प्राणे च्छेदः । कृच्छ्रोच्छासे मूलम् । समुद्धातेऽनवस्थाप्यम् । कालगमने पाराञ्चिकम् ॥ २१९५ ॥ - एनामेवं नियुक्तिगाथां व्याख्यानयति
__एसो वि तत्थ वच्चइ, नियत्तिमो आगयम्मि गच्छामो।।
लहुओ य होइ मासो, परितावणमाइ जो चरिमं ॥ २१९६ ।। ___ 'एषोऽपि' संयतः 'तत्र' स्थण्डिले ब्रजति अतो निवर्तामहे वयम् 'आगते' प्रतिनिवृत्ते सति गमिष्याम इति कृत्वा यदि संयत्यो निवर्तन्ते तदा लघुमासः । अथ संज्ञानिरोधनादनागाढपरितापनादिकं भवति ततश्चतुर्लघुकादिकमनन्तरगाथोक्तं .'चरमं' पाराञ्चिकं यावत् प्रायश्चित्तम् ।। २१९६ ॥ 20
गड्डा कुडंग गहणे, गिरिदरि उजाण अपरिभोगे वा।।
पविसंते य पविटे, निते य इमा भवे सोही ॥ २१९७॥ अथ तान् साधून् दृष्ट्वा यदि ‘ग यां' प्रतीतायां 'कुडङ्गे वंशजालिकायां 'गहने' बहुवृक्षनिकुञ्जे 'गिरिदाँ' पर्वतकन्दरायां 'उद्याने वा' अपरिभोग्ये संयत्यः प्रविशेयुः ततः प्रविशन्तीषु प्रविष्टासु निर्गच्छन्तीषु चेयं शोधिः साधूनां भवति ॥ २१९७ ॥
दूरम्मि दिट्टे लहुओ, अमुई अमुओ त्ति चउगुरू होंति ।
ते चेव सत्त भंगा, वीयारगए कुडंगम्मि ॥ २१९८ ।। यदि दूरे संयत्या संयतः संयतेन वा संयती दृष्टा ततो लघुको मासः । अथामुका संयती अमुको वा अयं ज्येष्ठार्य इति ते तदा चतुर्मुरवः । तत्र च कुडङ्गे यदि कोऽपि संयतः विचारार्थ गतः-पूर्वप्रविष्टो वर्तते तदा त एव सप्त भङ्गाः, तद्यथा-संयतः प्रविशन् दृष्टो 30 न संयती १ संयती प्रविशन्ती दृष्टा न संयतः २ द्वावपि दृष्टौ ३ द्वावपि न दृष्टौ ४, एवं
निर्गमनेऽपि चतुर्भङ्गी, नवरं चतुर्थो भङ्गः प्रवेश-निर्गमयोरुभयोरपि तुल्य इति कृत्वा द्वाभ्या
मप्येक एव गण्यत इति सप्त भङ्गा भवन्ति । एतेषु च प्रायश्चित्तं प्रागिव द्रष्टव्यम् ॥२१९८॥ Jain Education inter °व गाथां भा० त० डे० ॥ २ जा सपदं ता० ॥ ३ °वो भवन्ति । तत्र त० के० कां० ॥
25
www.jainelibrary.org