SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथाः २१८६-९३] प्रथम उद्देशः । ६२७ 'वा' इति अथवा तृतीयादेशे चतुर्ष्वपि भङ्गेषु लघुमासस्तपः - कालविशेषितो भिक्षोर्भवति । तद्यथा- - चतुर्थे भने द्वाभ्यामपि तपः- कालाभ्यां लघुकं लघुमासिकम् प्रथमे तदेव तपसा लघुकं कालेन गुरुकम्, द्वितीये कालेन लघुकं तपसा गुरुकम्, तृतीये द्वाभ्यामपि तप:कालाभ्यां गुरुकम् । ‘शेषाणां तु' वृषभोपाध्यायाचार्याणां यथाक्रमं गुरुको मासः चत्वारो लघुकाश्चत्वारो गुरुकाः चतुर्ष्वपि भङ्गेष्वेवमेव तपः- कालविशेषिताः प्रायश्चित्तम् ॥ २१९० ॥ - ऐष तृतीय आदेशः । अथ चतुर्थमाह- अहवा चउगुरुग च्चिय, विसेसिया हुंति भिक्खुमाईणं । मासाइ जाव गुरुगा, अविसेसा हुंति सव्वेसिं ॥ २१९१ ॥ अथवा चेतुर्गुरुका एव भिक्षुप्रभृतीनां चतुर्णामपि तपः - कालविशेषिता भवन्ति । तद्यथाभिक्षोर्द्वाभ्यामपि तपः- कालाभ्यां लघवः, वृषभस्य तपोलघवः कालगुरवः, उपाध्यायस्य तपो - 10 गुरुकाः काललघुकाः, आचार्यस्य द्वाभ्यामपि तपः- कालाभ्यां गुरवः । एष चतुर्थ आदेशैः । यद्वा मासादारभ्य चतुर्गुरुकं यावद् भिक्षु-वृषभादीनां प्रायश्चित्तानि । तद्यथा-1 - भिक्षोर्मासलघु, वृषभस्य मासगुरु, उपाध्यायस्य चतुर्लघुकम्, आचार्यस्य चतुर्गुरुकम् । एतानि च प्रायश्चित्तानि सर्वेषां भङ्गचतुष्टयेऽपि तपः - कालाभ्यामविशेषितानीति पञ्चम आदेशः ॥ २१९१ ॥ एवं तावत् प्रवेशप्रत्ययं शुद्धपदे प्रायश्चित्तमुक्तम् । अथ तत्र प्रविष्टानां ये दोषाः सम्भ- 15 वन्ति तत्प्रत्ययं प्रायश्चित्तमाह दिट्ठोभास पडिस्सुय, संथार तुअट्ट चलणउक्खेवे । फंसण पडिसेवणया, चउलहुगाई उ जा चरिमं ॥ २१९२ ॥ एवं प्रविष्टयोः संयत-संयत्योः परस्परं 'दृष्टे' दर्शने सजाते सति चतुर्लघवः । संयतः संयती वा यद्यवभाषते ततश्चत्वारो गुरवः । अवभाषिते सति यदि प्रतिशृणोति तदा षड् लघवः । 20 संस्तारके कृते षड् गुरवः । त्वग्वर्त्तने कृते च्छेदः । चलन :- पादस्तस्योत्क्षेपे मूलम् । स्पर्शनेऽनवस्थाप्यम् । प्रतिसेवने पाराञ्चिकम् ॥ २१९२ ॥ एवं प्रविष्टानां प्रायश्चित्तमुक्तम् । अथ निर्गमनविषयमाह पविते जा सोही, चउसु वि भंगेसु वन्निया एसा । निक्खमाणे सच्चिय, सविसेसा होइ भंगेसु ॥ २१९३ ॥ संयती-संयतयोः प्रविशतोर्या शोधिश्चतुर्ष्वपि भङ्गेषु 'एषा' अनन्तरमेव वर्णिता सैव शून्यगृहादेर्निष्क्रामतोरपि सविशेषा चतुर्ष्वपि भङ्गेषु भवति ॥ २१९३ ॥ एवं तावद् ग्रामादेरन्तर्विचारभूमौ गच्छन्तीनां भिक्षाचर्यायां च दोषाः प्रतिपादिताः । अधुना ग्रामादेर्बहिर्विचारभुवं 5 १ <> एतन्मध्यगतः पाठः भा० मो० ले० नास्ति ॥ २ चतुर्गुरवस्त एव मो० ० ॥ ३शः । अथ पञ्चममाह - "मासाइ जाव" इत्यादि । यद्वा मासादारभ्य चतुर्गुरुकं यावद् 'अविशेपितानि' तपः- कालविशेषरहितानि भिक्षु त० डे० कां० ॥ ४ पामपि अविशेषितानि, न तपः-कालाभ्यां विशेषयितव्यानीति भावः ॥ २१९१ ॥ भा० ॥ ५°षु पञ्चभिरादेशैः 'एषा' त० डे० ॥ ६°मादीनां बहि भा० ॥ Jain Education International For Private & Personal Use Only 25 www.jainelibrary.org
SR No.002512
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 03
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages364
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy