SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ ६२६ सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [वगडाप्रकृते सूत्रम् १० एक्किकम्मि य भंगे, ट्ठिाईया य गहणमादीया।। सत्तमभंगे मासो, आउभयाई अ सविसेसा ॥ २१८६ ॥ एकैकस्मिन् भङ्गे 'दृष्टादयः' दृष्टे सति शङ्का भोजिकादयो दोषा भवन्ति । तत्र शङ्का नाम किं विश्रामणार्थमत्र प्रविशति ? उत प्रतिसेवनार्थम् ? इति तत्र चतुर्गुरु । प्रतिसेवनार्थमेवेति 5 निःशङ्किते मूलम् । शेष भोजिकानिवेदनादि सप्रायश्चित्तं प्राग्वद् द्रष्टव्यम् । तथा उभयोरपि राजपुरुषैस्तत्र प्रवेशे दृष्टे सति ग्रहणा-ऽऽकर्षणादयो दोषाः । सप्तमे भङ्गे मासलघु, तत्र चात्मोभयादिसमुत्थाः सविशेषा दोषाः । तथाहि-तत्रोभयोरप्यदृष्टत्वादन्योन्यदर्शने द्वयोरेकतरस्य वा चित्तभेदः सम्भवेत्-केनाप्यावां प्रविशन्तौ न दृष्टाविति कृत्वा तत्रैकान्ते घटनं भवेत् । आदि शब्दाच्चतुर्थव्रतं विराधितमावाभ्यामिति मत्वा वैहायसमरणा-ऽवधावनादीनि कुर्याताम् ॥२१८६॥ 10 अथ प्रवेशविषयेषु भङ्गकेषु पञ्चभिरादेशैः प्रायश्चित्तमभिधित्सुः प्रथमादेशतस्तावदाह-~ चरमे पढमे बिइए, तइए भंगे य होइमा सोही । __ मासो लहुओ गुरुओ, चउलहु-गुरुगा य भिक्खुस्स ॥ २१८७ ॥ चरमो नाम-यत्र द्वे अपि न दृष्टे १ प्रथमः-यत्र संयत एव दृष्टः २ द्वितीयः-यत्र संयती दृष्टा ३ तृतीयः-यत्र द्वे अपि दृष्टे ४, एतेषु भङ्गेषु यथाक्रमं भिक्षोरियं शोधिर्मन्तव्या । 15 तद्यथा-मासो लघुकः, मासो गुरुकः, चतुर्लघुकाः, चतुर्गुरुकाः ॥ २१८७ ॥ वसभे य उवज्झाए, आयरिए एगठाणपरिवुड्डी ।। मासगुरुं आरम्भा, नायव्या जाव छेदो उ ।। २१८८ ॥ वृषभस्योपाध्यायस्याचार्यस्य च यथाक्रममेकैकस्थानपरिवृद्धिः कर्तव्या, ततश्च मासगुरुकादारभ्य च्छेदं यावत् प्रायश्चित्तस्थानानि ज्ञातव्यानि । तद्यथा-वृपभस्य चतुर्थे भङ्गे मासगुरु, 20 प्रथमे चतुर्लघु, द्वितीये चतुर्गुरु, तृतीये षड्लघु; एवमुपाध्यायस्य चतुर्लघुकादारब्धं षड्गुरुके तिष्ठति, आचार्यस्य चतुर्गुरुकादारब्धं छेदान्तं द्रष्टव्यम् ॥ २१८८ ॥ एष एक आदेशः । अथ द्वितीय उच्यते __ अहवा चरिमे लहुओ, चउगुरुगं सेसएसु भंगेसु । भिक्खुस्स दोहि वि लहू, काल तवे दोहि वी गुरुगा ॥ २१८९ ॥ __ अथवा चरमे भङ्गे लघुको मासः, 'शेषेषु' त्रिष्वपि भङ्गेषु प्रत्येकं चतुर्गुरुकम् । एतानि प्रायश्चित्तानि भिक्षोः 'द्वाभ्यामपि' तपसा कालेन च लघुकानि, वृषभस्य कालगुरुकाणि, उपाध्यायस्य तपोगुरूणि, आचार्यस्योभयगुरूणि ॥ २१८२ ॥ एष द्वितीय आदेशः । अथ तृतीय उच्यते मासो विसेसिओ वा, तइयादेसम्मि होइ भिक्खुस्स । गुरुगो लहुगा गुरुगा, विसेसिया सेसगाणं तु ।। २१९० ॥ १तत्र चोभयोरप्यदृष्यत्वाद् आत्मोभयादिसमुत्थाः 'सविशेषाः' समधिका दोषाः। तत्रान्योन्यदर्शने द्वयोरेकतरस्य वा चित्तभेदः । भिन्नचित्तयोश्च तत्रैकान्ते भा० ॥ २a> एतच्चिह्नमध्यगतः पाठः भा० नास्ति ॥ ३त० डे० का विनाऽन्यत्र ---°षु तावतप्रायश्चित्तमाह मो० ले.॥ 30 www.jainelibrary.org
SR No.002512
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 03
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages364
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy