________________
10
भाष्यगाथाः २१७९-८५] प्रथम उद्देशः । 'तपस्वी' क्षपकः स विश्रामग्रहणार्थम् , यद्वाऽत्युप्णेन कस्यापि मूच्छौं समुत्पन्नागरिकारक्षपायनार्थम् , यदि वा भिक्षाटनेन श्रान्तोऽहमतोऽत्र विश्रामं गृह्णामि एवमेभिः कारणैस्तत्र प्रविशेत् , स च प्रविशन् ततो निर्गच्छन् वा जनेन दृश्येत; संयत्यपि तत्रैतैरेव कारणैः प्रविशेत् साऽपि प्रविशन्ती जनेन दृष्टा स्यात् ॥ २१८१ ।। अत्र चतुर्भङ्गीमाह--
संजओं दिट्ठो तह संजई य दोण्णि वि तहेव संपत्ती।
रच्छामुहे व होजा, सुनघरे देउले वा वि ॥ २१८२ ॥ संयतस्तत्र प्रविशन् दृष्टो न संयती ? संयती दृष्टा न संयतः २ संयतः संयती च द्वावपि दृष्टौ न दृष्टौ वा ३-४ । “तहेव संपत्ति" त्ति यैः कारणैः संयतः प्रविष्टस्तैरेव संयत्या अपि तत्र सम्प्राप्तिरभूत् , एवमनन्तरोक्तचतुर्भङ्गया रथ्यामुले वा शून्यगृहे वा देवकुले वा दर्शनं स्यात् ॥ २१८२ ॥ ततः किम् ? इत्याह
वइणी पुव्वपविट्ठा, जेणायं पविसते जई इत्थ ।
एमेव भवति संका, वइणि दट्टण पविसंतिं ॥ २१८३ ॥ संयतं तत्र प्रविशन्तं दृष्ट्वा शङ्का भवेत्-नूनं व्रतिनी पूर्वप्रविष्टा वर्त्तते येनायं यतिरत्र प्रविशति । एवमेव व्रतिनीं प्रविशन्तीं दृष्ट्वा शङ्का भवति-नूनं संयतः प्रविष्टोऽस्ति येनेयं प्रविशति ॥ २१८३ ॥
15 उभयं वा दुदुवारे, दटुं संगारउ त्ति मन्नति ।
ते पुण जइ अन्नोन्न, पासंता तत्थ न विसंता ॥२१८४॥ द्विद्वारे वा देवकुले 'उभयं' संयतः संयती च प्रविशेत् , तत्रैकेन द्वारेण संयतः प्रविष्टो द्वितीयेन तु संयती, तौ च दृष्ट्वा 'सङ्गारः' सङ्केतोऽत्रानयोरिति गृहस्था मन्यन्ते । 'तौ च' संयतीसंयतौ यद्यन्योन्यमद्रक्ष्यतां ततस्तत्र 'नावेक्ष्यतां' प्रवेशं नाकरिप्यताम् ॥ २१८४ ॥ 20 ईत्थं प्रवेशे चतुर्भङ्गी दर्शिता । अथ निर्गमनेऽपि तामतिदिशन्नाह-~
एमेव ततो णिते, भंगा चत्तारि होति नायव्वा ।
चरिमो तुल्लो दोसु वि, अदिट्ठभावेण तो सत्त ॥ २१८५॥ 'एवमेव' प्रवेशवत् 'ततः' शून्यगृहादेर्निर्गच्छतोरपि तयोश्चत्वारो भङ्गा भवन्ति ज्ञातव्याः । तद्यथा-संयतो निर्गच्छन् दृष्टो न संयती १ संयती निर्गच्छन्ती दृष्टा न संयतः २ संयतः 25 संयती द्वावपि दृष्टौ ३ द्वावपि न दृष्टौ ४ । अत्र च 'द्वयोरपि' प्रवेश-निर्गमयोः 'चरमः' चतुर्थो भङ्गस्तुल्यः । कुतः ? इत्याह---'अदृष्टभावेन' द्वयोरपि संयत-संयत्योरदृष्टत्वेन, ततश्च द्वाभ्यामप्येक एव गण्यते, एवं सप्त भङ्गा भवन्ति ॥ २१८५ ॥ एतेषु दोषानाह
१शन जनेन ६० त० डे० कां० ॥ २ मो० ले. विनाऽन्यत्र-दृष्टौ ३ तथा द्वावपिन दृष्टौ ४। "त त. डे. कां० । दृ ३ न संयतो न वा संयती दृष्टेति ४ । “त° भा० ॥ ३°रणैः प्रथम. द्वितीयादिपरीषहातुरतादिभिः संयतः डे० त० । “तहेव संपत्ति ति जेहिं कारणेहिं संजओ पविट्रो तेहिं कारणेहिं संजई वि" इति विशेषचूर्णी ॥ ४°ष्ट्वा शङ्कते-नूनं त० डे. कां. ॥ ५च तथा हत.०॥ ६॥ एतन्मध्यगतः पाठः भा. नास्ति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org