________________
10
६२४
पडिसेहो जम्मि पढे, पायच्छित्तं तु ठाइ पुरिमपए । निस्संकियम्मि मूलं, मिच्छत्त पसजणा सेसे ।। २१७९ ॥
तेन पुरुषेण भोजिकाया आख्यातम् — मया संयती संयतं शीर्षप्रणामेनावभाषमाणा दृष्टा, ततः सा प्रतिषेधयति—न भवत्येवम्, मैबमसमञ्जसं वोच इति; ततः प्रायश्चित्तमप्युपरतम् । अथासौ 5 तया न प्रतिषिद्धस्ततः प्रायश्चित्तं वर्द्धते । एवं घाटिकादिष्वपि वक्तव्यम् । ततो यस्मिन् भोजिकादो पदे प्रतिषेधस्ततः ‘पूर्वपदे' शङ्कादौ प्रायश्चित्तं तिष्ठति, नोर्द्ध वर्द्धते । तथा 'कुपित-प्रसादनाद्यर्थमेव करोति' इति निःशङ्कते मूलम् । एवं मिथ्यात्वं 'शेषस्य च ' भोजिकादिविषयप्रायश्चित्तस्य प्रसजना भवतीति ॥ २१७९ ॥ कथं पुनर्भोजिकादयः प्रतिषेधयन्ति ? इत्याहकिकम्मं तीऍ कथं, मा संक असंकणिजचित्ताइं ।
15
सनिर्युक्ति-लघुभाप्य-वृत्तिके बृहत्कल्पसूत्रे [ बगडाप्रकृते सूत्रम् १०
न विभूयं न भविस्सइ, एरिसगं संजमधरेसुं ॥ २१८० ॥
'कृतिकर्म' वन्दनकं ' तया' संयत्या कृतम्, मा अशङ्कनीयचित्ते अमू शङ्किष्ठाः, नापि भूतम् अपिशब्दाद् न भवति न च भविष्यति ईदृशं भवत्परिकल्पितं कुपित - प्रसादनादिकमसमञ्जसचेष्टितं 'संयमधरेषु' साधु-साध्वीजनेषु ॥ २१८० ॥
एवं विचारभूमौ गच्छतां दोषा उक्ताः । अथ भिक्षाचर्यायां तानेवाह—
पढम- बिइयातुरो वा, सइकाल तवस्सि मुच्छ संतो वा । रच्छामुहाइ पविसं, नितो व जणेण दीसिखा ।। २१८१ ॥
" रच्छामुहाइ " त्ति तस्मिन् ग्रामे रथ्यामुखे आदिशब्दादन्यत्र वा तथाविधे स्थाने देवकुलं वा शून्यगृहं वा भवेत् तत्र प्रथमपरीषहातुरः प्रथमालिकार्थं द्वितीयपरीषहातुरश्च द्रवपानार्थं प्रविशेत्, यद्वा यावन्न 'सत्काल : ' भिक्षाया देशकालो भवति तावदत्रैवोपविष्टस्तिष्ठामि, अथवा
१ दृष्टा, यद्वा संयतीवन्दने संयतेन यत् प्रतिवन्दनं कृतं तद् दृष्ट्रा ब्रूयात् - मया संयतः संयतीं शिरःप्रणामेन याचमानो दृष्ट इति । ततः सा प्रतिषेधयति न भवत्येवम्, मा शङ्कां कार्षीः । एवं घाटिकादयोऽपि यदि प्रतिषेधयन्ति ततः 'यस्मिन् पदे' घाटिकादौ प्रतिषेधस्ततः पूर्वे पदे' भोगिन्यादौ प्रायश्चित्तमपि तिष्ठति, नो वर्द्धते । निःशङ्कते सति मूलम् । एवं मिथ्यात्वं शेषस्य च प्रसजना भवति । २२७९ ॥ कथं पुनर्भोगिन्यादयः भा० ।
"पडिसेहो जम्मि० गाहा । तेण भोइयाए अक्खायं, जहा मे संजओ संजई सीसपणामकरणेणं ओभासंतो दिट्ठो ॥ ताहे सा भोइया से भइ-वंदणयं तीय कयं० गाहा कण्ठ्या ॥” इति विशेषचूर्णो ।
"पडिसेहो ० गाधा ॥ जाधे तेण भोइयाए कधितं, जधा - मए संजतं संजती सीसपणामेणं ओभासंती दिट्ठा ॥ ता सा भज्जा से भणेज्जा - कितिक्रम्मं० गाधा कंठा ।" इति चूर्णो ।
भा० प्रती टीका विशेषचूर्ण्यनुसारिणी, शेषप्रतिगतटीका पुनः चूर्ण्यनुसारिणीति ॥
२ विशेषचूर्णिकृता - वंदणयं तीय कथं इति पाठ आहतोऽस्ति । दृश्यतां टिप्पणी १ ॥
३ 'मद्वितीयपरी पहातुरः प्रथमालिकाद्यर्थं प्रविशेत्, भा० ।
“पढम-बिति० गाहा । छुधाइतो पढमालियं करेमि त्ति वितियपरीसहेण वा आतुरः- तृषित इत्यर्थः, अधवा जाव ण ताव सतिकालो भवति ताव एत्थ अच्छा मि” इति चूर्णो ।
“पढमबिइया० गाहा । तम्मि गामे नगरे वा रच्छामुहे देवउले सुन्नधरं वा तत्थ 'पढम- बिइयातुरो' छुहातिओ पढमालियं करेमि त्ति तिसिओ वा पाणं पिबामि त्ति, अहवा जाव न ताव सइकालो भवइ ताव एत्थ उवविट्ठो अच्छामि ।” इति विशेषचूर्णो ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org