________________
भाष्यगाथाः २१७० - ७८ ]
प्रथम उद्देशः ।
६२३
समायातं संयतं सम्यगुपलक्ष्य संयती यद्यमुकोऽयं ज्येष्ठार्य इति ब्रूते, संयतो वा संयतीमुपलक्ष्य अमुका संयतीति ब्रवीति तदा चत्वारो लववः । अथ सा 'कृतिकर्म' वन्दनं करोति तदा चत्वारो गुरुकाः । ये चाभिनवधर्माणस्ते तथा वन्दमानानुपलभ्य वक्ष्यमाणनीत्या मिथ्यात्वं गच्छेयुः । 'शेषे' भोजिका-घाटिकादौ शङ्कां कुर्वाणे सति 'प्रसजना' प्रायश्चित्तस्य वृद्धिर्द्रष्टव्या ॥ २१७४ ॥ तामेवाह—
5
दिट्ठे संका भोइय, घाडिय नाई य गाम बहिया य ।
"
चत्तारि छ च्च लहु गुरू, छेदो मूलं तह दुगं च ॥ २१७५ ॥ संयतस्य संयत्या कृतिकर्म क्रियमाणं केनचिद् दृष्टम् दृष्टे सति तस्य 'शङ्का' वक्ष्यमाणा सञ्जायते ततश्चत्वारो गुरवः । अथ 'भोजिकायाः ' भार्यायाः कथयति ततश्चतुर्लघुकाः । घाटिकःमित्रं तस्याग्रतः कथने चतुर्गुरवः । ' ज्ञातीनां' स्वजनानां कथने षड् लघवः | अज्ञातीनां कथ- 10 यति षड् गुरवः । ग्रामस्य कथयति च्छेदः । ग्रामवहिर्निर्गत्य कथयति मूलम् । ग्रामसीमायां कथनेऽनवस्थाप्यम् । सीमानमतिक्रम्य कथयति पाराञ्चिकम् ॥ २१७५ ॥
कीदृशी पुनः शङ्का भवति ? इत्याह
___________
कुवियं नु पसादेती, आओ सीसेण जायए विरहं ।
आओ तलपन्नविया, पडिच्छई उत्तिमंगेणं ॥ २१७६ ।। इइ संकाए गुरुगा, मूलं पुण होइ निव्विसंके तु । सोही वाऽसन्नतरे, लहुगतरी गुरुतरी इयरे ।। २१७७ ॥ 'नु:' इति वितर्के, किमेषा संयंती कुपितं सन्तमेनं संयतं प्रसादयति ? आहोश्चित् 'शीर्षेण' मस्तकेन ‘विरहः' एकौन्ते याचते ? उताहो अनेन साधुना तलेन - चप्पुटिकादिकरणेन प्रज्ञापिता सती प्रार्थनामुत्तमाङ्गेन प्रतीच्छति ? || २१७६ ॥
'इति' एवं शङ्कायां चत्वारो गुरुकाः । अथ निर्विशङ्क-कुपित-प्रसादनाद्यर्थमेव करोतीति मन्यते ततो द्वयोरपि मूलम् । भोजिकादिश्च यो यस्तस्य सम्बन्धेनासन्नतरस्तत्र तत्र शोधिलघुकतरा । ‘इतरस्मिन्’ घाटिक - ज्ञात्यादौं दूरतरे गुरुकतरा ॥ २२७७ ॥
अथ किमिति ज्ञातीनां प्रथमं न कथयति : इत्याह
विस्ससह भोइ-मित्ताइए तो नायओ भवे पच्छा ।
जह जह बहुजणनायं, करेइ तह वड्ढए सोही ॥ २१७८ ॥ भोजिका - मित्रादिषु शरीरमात्र भिन्नेषु न किमपि गोपनीयमस्तीति कृत्वा यतोऽसौ विश्वसिति ततः ‘ज्ञातीन्' खजनान् पश्चाद् ज्ञापयति । यथा यथा चासौ बहुजनज्ञातं करोति तथा तथा 'शोधिः" प्रायश्चित्तं वर्द्धते ॥ २१७८ ॥
- अथासौ ज्ञाप्यमानो जनः प्रतिषेधयति ततः प्रायश्चित्तमप्युपरमते । तथा चाह—
Jain Education International
15
20
25
30
१ 'नां' भ्रात्रादीनां भा० ॥ २ ती एवं वन्दमाना कु त०डे० कां० ॥ ३ 'कान्तं या भा० ॥ ४°व वन्दनकं क° त० डे० कां० ॥ ५°दौ सम्वन्धेन दूर° त० डे० कां० ॥ ६ उच्यते भा० ॥ ७ एतदन्तर्गतः पाठः भा० नास्ति ॥
For Private & Personal Use Only
www.jainelibrary.org