________________
६२०
सनिर्युक्ति-लघुभाष्य-वृत्तिके वृहत्कल्पसूत्रे [ बगडाप्रकृते सूत्रम् १०
संयत्यः 'दूरेण' पृथग्बसत्यादौ वसन्त्यः परिहर्तुं शक्यन्ते, यास्तु 'असंयत्यः' अविरतिकास्ताः परिहर्तुमशक्याः, यतस्ताभ्य उपधिराहारश्च लभ्यते, अतो यदि ' मीलनायाः' संसर्गस्य दोषः संयतीक्षेत्रे तिष्ठतां भवति ततः साधुभिररण्ये गत्वा वस्तव्यम् ॥ २६३ ॥ सूरिराहरन्ने वितिरिक्खीतो, परिन्न दोसा असंतती यावि ।
लब्भीय कूलवालो, गुणमगुणं किं व सगडाली ।। २१६४ ॥
अरण्येऽपि वसतां तैरश्चस्त्रियो हरिणीप्रभृतयो दोपानुपजनयन्ति । तथा 'परिज्ञा' भक्तप्रत्याख्यानं तद्दोषाश्च भवन्ति । तथाहिं – तत्राहाराद्यभावाद् भक्तप्रत्याख्यानं कर्त्तव्यम्, तच्च प्रथमत एव कर्तुं न युज्यते, विरतिसहितस्य जीवितस्य दुष्प्रापत्वात् ; न च तदानीं तत् कर्तुं शक्यते, कुर्वतामप्यार्त्तध्यानसम्भवात् कुदेवत्वगमन- प्रेत्यवोधिदुर्लभत्वादयो दोषाः । 'असन्ततिश्च' 10 प्रवाजनाद्यभावान्न शिष्य-प्रशिष्यादिसन्तान उपजायते, यद्वा – “असंतईए" र्त्ति सर्वथैव स्त्रीणामसत्तायां वनवासमङ्गीकृत्य यत् किल ब्रह्मचर्यं धार्यते तन्न बहुफलं भवति,
B
~< “थंभौ कोहा अणाभोगा, अणापुच्छा असंतई ।" ( आव० मू० भा० गा० २५७ ) इति वचनात् । न चात्रारण्यं जनाकुलं वा प्रमाणम्, यतः कूलवालकोsटव्यामपि वसन् कं गुणं लब्धवान् ? ' शाकटालि:' स्थूलभद्रखामी स जनमध्ये गणिकाया गृहेऽपि तिष्ठन् 15 कमगुणं लब्धवान् ? न कमपीति भावः ॥ २१६४ ॥ किञ्च –
25
कस्सर विवित्तवासे, विराहणा दुन्नए अभेदो वा ।
जह सगडालि मणो वा, तह विइओ किं न रुंभिंसु ।। २१६५ ।।
कस्यचिद् ‘विविक्ते' स्त्री- पशु-पण्डकविरहितेऽपि वासे वसतः प्रबलवेदोदयाद् विराधना ब्रह्मचर्यस्य भवति, कस्यापि पुनः 'दुर्नये' रूयादिसंसक्तप्रतिश्रयवासेऽपि वेदमोहनीयक्षयोपशम20 प्रबलत्वेन 'अभेद: ' न ब्रह्मचर्यविलोपो भवति । वाशब्दः प्रकारान्तरद्योतनार्थः । आह यद्येवं तर्हि कर्मोदय-क्षय-क्षयोपशमादिरेव प्रमाणं न स्त्रीसंसर्गादि, नैवम्, कर्मणामुदेय-क्षय क्षयोपशमादयोऽपि प्रायस्तथाविधद्रव्य-क्षेत्रादिसहकारिकारणसाचिव्यादेव तथा तथा समुपजायन्ते नान्यथा । यथा वा 'शाकटालि:' स्थूलभद्रस्वामी स्वकीयं मनः स्त्रीसंसर्गेऽपि निरुद्धवान् तथा 'द्वितीय: ' सिंहगुहावासी किं न निरुद्धवान् ? येन स्त्रीसंसर्गादिकमप्रमाणं गीयते ॥ २१६५ ॥ यतश्चैवमतः
होज नवा वि पभुक्तं, दोसाययणेसु वट्टमाणस्स । चूयफलदोसदरिसी, चूयच्छायं पिब || २१६६ ।।
॥
१ 'थक क्षेत्रादी भा० त० डे० कां० ॥ २ स्त्रियो भवन्ति । तथा तत्राहाराद्यभावात् 'परिशा' भक्तप्रत्याख्यानं कर्त्त मो० ले० ३न्ति, अरण्ये हि बलतामाहाराद्यभावाद् भक्तमेव प्रत्याख्यातव्यम्, तच्च भा० ॥ दत्त 'असा' सर्वथैव स्त्रीणामसद्भावे वन भा० ॥ ५ एतचिह्नगतः पाठः भा० नास्ति ॥ ६नप्रामाण्येन सदोषत्वात् त०डे० कां० ॥ ७ इदमेवाह भा० ॥ ८ 'दय-क्षयोपशमावेव प्र० भा० ॥ ९ दय क्षयोप भा० ॥ १० कारिसाचि' त० डे० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org