________________
भाष्यगाथाः २१५३-६३] प्रथम उद्देशः ।
नहु निग्गहो न सेओ, एमेव इमं पिपासामो ॥ २१५९ ॥ शिष्यः प्राह-'कामम्' अवधारितमस्माभिर्यथा यूयं वदथ अक्षीणवेदानां मोहस्योदयो भवति, परं 'तं पुनः' मोहोदयं जयामो वयं 'भावना-तपो-ज्ञानव्यापारात्' भावना-स्त्रीकडेवरसतत्त्वचिन्तनादिका तपः-चतुर्थादिकम् ज्ञानव्यापारः-सूत्रार्थचिन्तनात्मकः, अपि च-"चउहिं ठाणेहिं कोहुप्पत्ती सिया, तंजहा—खेतं पडुच्च वत्थु पडुच्च सरीरं पडुच्च उवहिं पडुच्च" इत्या-5 दिना स्थानाङ्गादौ (४ स्थाने पत्र १९३-१ ) प्रज्ञप्तानां कपायोत्पत्तिकारणानां क्षेत्र-वास्त्वादीनां सद्भावेऽपि यथा कषायाणां निग्रहो न न श्रेयान् अपि तु श्रेयानेव, एवमेव 'इदमपि' प्रस्तुतं पश्यामः, मोहोदयकारणानां सद्भावेऽपि तन्निग्रहं करिप्याम इति भावः ॥ २१५८ ॥ २१५९ ॥ अत्र सूरिः परिहारमाहपहरण-जाणसमग्गो, सावरणो वि हु छलिजई जोहो।
10 वालेण य न छलिजइ, ओसहहत्थो वि किं गाहो ॥ २१६० ॥ प्रहरणं-खड्गादि यानं-हस्त्यादि ताभ्यां समग्रः-सम्पूर्णः तथा 'सावरणः' सन्नाहसहितः अपिशब्दाद् युद्धकौशलादिगुणयुक्तोऽपि यथा योधः समरशिरसि प्रविष्टः प्रयत्नं कुर्वाणोऽपि योधान्तरेण 'छल्यते' छलं लब्ध्वा हन्यते इत्यर्थः, यद्वा 'ग्राहः' सर्पग्राहको गारुडिकादिः औषधहस्तोऽपि किं व्यालेन' दुष्टसर्पण न च्छल्यते ? छल्यत एवं, एवं यद्यपि भवान् 15 भावना-तपो-ज्ञानव्यापारयुक्तस्तथापि स्त्रीणां सन्दशनादि कुर्वन् मोहोदयेन च्छल्यत एवेति ॥ २१६० ॥ अपि च
उदगघडे वि करगए, किमोगमादीवितं न उज्जलइ । ___ अइइद्धो वि न सकइ, विनिव्ववेउं कुडजलेणं ॥ २१६१ ॥ उदकघटे 'करगतेऽपि' हस्तस्थितेऽपि किम् 'ओकः' गृहम् 'आदीपितं' प्रज्वालितं सद् 20 'नोज्वलति' न दीप्यते ?, अथासौ 'अर्ताद्धः' अतिदीप्तोऽग्निस्ततः कुटजलेन प्रक्षिप्तेनापि नासौ निर्वापयितुं शक्यते, एवं यद्यपि ज्ञानव्यापारादिकं जलघटकल्पं स्वाधीन तथापि मोहोदयामिना प्रज्वलितं चारित्रगृहं किं न प्रदीप्यते ?, अतिप्रवलो वा मोहो यादीयेत ततो घटजलकल्पेन बहुनाऽपि ज्ञानव्यापारादिना नाऽसौ विध्यापयितुं शक्य इति ॥ २१६१ ॥ किञ्च
रीढासंपत्ती वि हु, न खमा संदेहियाम्म अत्थम्मि।
नायकए पुण अत्थे, जा वि विवत्ती स निदोसा ।। २१६२ ।। संयतीक्षेत्रे गतानां मोहोदयनिरोधादिको यः सन्देहितः-संशयास्पदीभूतोऽर्थस्तस्मिन रीडयायदृच्छया घुणाक्षरन्यायेन सम्पत्तिरपि 'न क्षमा' न श्रेयसी । यः पुनः साध्वीरहितक्षेत्रगमनादिकोऽर्थः पूर्व ज्ञातः-निर्दोषत्वेन निर्णीतस्ततः कृतः कर्तुमारब्धः ज्ञातकृतस्तमिन् एवंविधेऽर्थे याऽपि कुतोऽपि वैगुण्यतो विपत्तिर्भवति सा अपि निर्दोषो मन्तव्या ॥ २१६२ ॥ अथ परः प्राह-30
दूरेण संजईओ, अस्संजइआहि उहिमाहारो।
जइ मेलणाएँ दोसो, तम्हा रनम्मि बसिबव्वं ॥ २१६३ ॥ १ वेति भावः, एवं भा० ॥ २ °न् संशयास्पदीभूतेऽर्थे क्रियमाणे गढ भा० ॥
25
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org