________________
६१८
सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [वगडाप्रकृते सूत्रम् १० दिदिधण-रागानिलसमीरितो ईय भावग्गी ॥ २१५३ ॥ शुष्कन्धनेन वायुबलेन वाऽभिदीपितो यथा वहिरधिकं दीप्यते "ईय" एवं दृष्टिरूपं यदिन्धनं यश्च रागरूपोऽनिल:-वायुस्ताभ्यां समीरितः-उद्दीपितो भृशं भावामिरपि दीप्यते ॥ २१५३ ।। अथ “किं पुण तासिं तयं नत्थि" ( गा० २१४९) त्ति पदं भावयन् शिष्येण प्रश्नं कारयति
लुक्खमरसुण्हमनिकामभोइणं देहभूसविरयाणं ।
सज्झाय-पेहमादिसु, वावारेसुं कओ मोहो ॥ २१५४ ॥ रूक्षं-निःस्नेहम् “अरसोण्हं" इति नञ् प्रत्येकमभिसम्बध्यते अरसं-हिंग्वादिभिरसंस्कृतम् अनुष्णं-शीतलम् अनिकामं–परिमितं भक्तं भोक्तुं शीलमेषां ते रूक्षा-ऽरसा-ऽनुप्णा-ऽनिकामभो. जिनस्तेषाम् , मकारावलाक्षणिकौ, तथा देहभूषायाः-सानादिरूपाया विरतानां प्रतिनिवृत्तानाम् , 10 खाध्यायः-वाचनादिरूपः प्रेक्षा-प्रत्युपेक्षणा तयोः आदिशब्दाद् वैयावृत्त्यादिषु च व्यापारेषु व्यापूतानां साधु-साध्वीजनानां कुतः 'मोहः' पुरुषवेदाधुदयरूपः सम्भवति ? ॥ २१५४ ॥ अत्र प्रतिवचनमाह
नियणाइलुणणमद्दण, वावारे बहुविहे दिया काउं ।
सुक्ख सुढिया वि रत्ति, किसीवला किं न मोहंति ॥ २१५५ ॥ 15 "नियणं" ति निदानं निद्दिणणमित्यर्थः, आदिशब्द उत्तरत्र योक्ष्यते, लवनं मर्दनं च प्रती
तम् , एवमादीन् बहुविधान् व्यापारान् दिवा कृत्वा 'शुष्काः' स्नानाद्यभावेन शीतोष्णादिभिश्च परिम्लानाः “सुढिआ" श्रान्ता एवंविधा अपि कृषीवलाः 'किम्' इति परिप्रश्ने भवानेवात्र पृच्छयते कथय किं ते रात्रौ 'न मुह्यन्ति' न मोहमुपगच्छन्ति ? मुह्यन्त्येवेति भावः ॥ २१५५ ।।
जइ ताव तेसि मोहो, उप्पजइ पेसणेहिं सहियाणं ।
अव्वावारसुहीणं, न भविस्सइ किह णु विरयाणं ॥ २१५६ ॥ ___ यदि तावत् 'तेषां कृपीवलानां प्रेषणैः' व्यापारैः सहितानां मोह उत्पद्यते ततः 'विरतानां' संयतानाम् 'अव्यापारसुखिनां' तथाविधव्यापाररहिततया सुखिना सतां कथं नु नाम न मोहोदयो भविष्यति ॥ २१५६ ॥ २ अथात्रैव पराभिप्रायमाशङ्कय परिहरति-~
कोई तत्थ भणिजा, उप्पन्ने रंभिउं समत्थो त्ति ।
सो उ पभू न वि होई, पुरिसो व घरं पलीवंतो ॥ २१५७ ॥ कश्चित् 'तत्र' अनन्तरोक्तेऽर्थे ब्रूयात्-यद्यपि मोह उत्पत्स्यते तथाप्यहमुत्पन्नेऽपि मोहे आत्मानं निरोद्धं समर्थ इति । गुरुराह–स पुनरेवं वक्ता तादृशेऽवंसरे निरोद्धं 'प्रभुः' समर्थों न भवति, पुरुष इव गृहं प्रदीपयन् ॥ २१५७ ॥ अथैनामेव नियुक्तिगाथां व्याख्यानयति
कामं अखीणवेदाण होइ उदओ जहा वदह तुब्भे । तं पुण जिणामु उदयं, भावण-तव-नाणवावारा ॥ २१५८ ॥
उप्पत्तिकारणाणं, सब्भावम्मि वि जहा कसायाणं । १ प्यते 'इति' ए° भा० ॥ २ » एतचिह्नान्तर्गतः पाठः भा० नास्ति ।। ३ °यनिति ॥ २१५७ ॥ अस्या एव पूर्वार्द्ध व्या भा० ॥
30
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org