________________
भाप्यगाथाः २१४४-५२] प्रथम उद्देशः ।
६१७ 'स पुनः' द्रव्याग्निः 'इन्धन' तृण-काष्ठादिकमासाद्य दीप्यते 'सीदति च' विनश्यति 'तदभावाद्' इन्धनाभावात् । 'नानात्वं' विशेषस्तदपि च लभते इन्धनतः परिमाणतश्च । तत्रेन्धनतो यथा-तृणाग्निः तुषाग्निः काष्ठानिरित्यादि । परिमाणतो यथा-महति तृणादाविन्धने महान् भवति, अल्पे चेन्धने स्वल्प इति ॥ २१४८ ॥ उक्तो द्रव्याग्निः । अथ भावाग्नि व्याचष्टे
भावम्मि होइ वेदो, इत्तो तिविहो नपुंसगादीओ।
जइ तासि तयं अत्थी, किं पुण तासिं तयं नत्थी ।। २१४९ ॥ 'भावे' भावाग्निर्वेदाख्य इत ऊर्द्ध वक्तव्यो भवति । स च वेदस्त्रिविधो नपुंसकादिको ज्ञातव्यः । अत्र परः प्राह-यदि 'तासां' संयतीनां 'तकत्' स्त्रीवेदादिरूपं मोहनीयं स्यात् तर्हि युष्मदुक्तोऽग्निदृष्टान्तोऽपि सफल: स्यात् 'किं पुनः' परं तासां 'तकत्' मोहनीयं नास्ति, अतः कुतस्तासां भावानेः सम्भवो भवेत् ? इति भावः । एतदुत्तरत्र (गा० २१५४ ) भावयिप्यते 10 ।। २.१४९ ॥ अथानन्तरोक्तमेव भावाग्निखरूपं स्पष्टयति
उदयं पत्तो वेदो, भावग्गी होइ तदुवओगेणं ।
भावो चरित्तमादी, तं डहई तेण भावग्गी ॥ २१५० ॥ __'वेदः' स्त्रीवेदादिरुदयं प्राप्तः सन् तस्य-स्त्रीवेदादेः सम्बन्धी य उपयोगः-पुरुषाभिलाषादिलक्षणस्तेन हेतुभूतेन भावाग्निर्भवति । कुतः ? इत्याह-भावश्चारित्रादिकः परिणामः 'तं' भावं 15 येन कारणेन दहति तेन भावाग्निरुच्यते, 'भावस्य दाहकोऽग्निर्भावामिः' इति व्युत्पत्तेः ॥ २१५० ॥ कथं पुनर्दहति ? इति चेद् उच्यते
जह वा सहीणरयणे, भवणे कासइ पमार्य-दप्पेणं । डझंति समादित्ते, अणिच्छमाणस्स वि वसूणि ॥ २१५१ ॥ इय संदसण-संभासणेहिँ संदीविओ मयणवण्ही ।
20 बंभादीगुणरयणे, डहइ अणिच्छस्स वि पमाया ॥ २१५२ ॥ यथा वा 'खाधीनरत्ने' पद्मरागादिबहुरत्नकलिते भवने प्रमादेन दर्पण वा 'समादीप्ते' प्रज्वालिते सति 'कस्यचिद्' इभ्यादेरनिच्छतोऽपि 'वसूनि' रत्नानि दह्यन्ते, “इय' एवं सन्दर्शनम्अवलोकनं सम्भाषणं-मिथः कथा ताभ्यां 'सन्दीपितः' प्रज्वालितो मदनवहिरनिच्छतोऽपि साधुसाध्वीजनस्य 'ब्रह्मादिगुणरत्नानि' ब्रह्मचर्य-तपः-संयमप्रभृतयो ये गुणास्त एव दौर्गत्यदुःखाप-25 हारितया रत्नानि तानि प्रमादाद् 'दहति' भस्मसात् करोति ॥ २१५१ ॥ २१५२ ।। अमुमेवार्थ द्रढयति
सुक्खिधण-चाउवलाऽभिदीवितो दिप्पतेऽहियं वण्ही । १°ग्निं नियुक्तिगाथया तावद् व्या त० डे० कां० ॥ २ °वाग्निरित ऊई वक्तव्यो भवति । स च भावाग्निस्त्रिविधो नपुंसकादिको वेदो ज्ञा' भा० ॥ ३ सन् तदुपयोगेन भावाग्निर्भवति, तस्य-स्त्रीवेदादेः सम्बन्धी य उपयोगः-पुरुषाभिलाषादिलक्षणः तेन हेतुभूतेनेत्यर्थः । कुतः पुनरयं भावाग्निव्यपदेशं लभते ? इत्याह-भावश्चारि° भा० ॥
४°यदोसेणं भा० ॥ ५°स्याप्यनिच्छ भा० मो० ले.॥ ६ ब्रह्मादयः-ब्रह्म भा० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org