________________
भाष्यगाथाः २१३४-४३] प्रथम उद्देशः । सति करिष्यथ वा न वा 'एनम्' अस्मदभिप्रेतमर्थमिति वयं न विद्मः । कुतः ? इत्याह'क्षौद्रमुखाः' मधुमुखा मधुरभाषिण इत्यर्थः 'सन्ति' विद्यन्ते 'इह' अस्मिन् गच्छे भवतां वल्लभेश्वराः ये जिनवाचमपि 'कोपयेयुः' अन्यथा कुर्युः, आस्तां तावदस्मदादिवचनमित्यपिशब्दार्थः ॥ २१३९ ॥
इइ सपरिहास निब्बंधपुच्छिओ वेइ तत्थ समणीओ।
बलियपरिग्गहियाओ, होह दढा तत्थ वच्चामो ॥ २१४० ॥ 'इति' एवं सपरिहासं तेनोक्ते आचार्यैः स महता निर्बन्धेन पृष्टः-कथय भद्र ! कीदृशस्तत्र दोषो विद्यते ? ततः स ब्रवीति-तत्र श्रमण्यो बलिना-बलवता आचार्यादिना परिगृहीता विद्यन्ते, परं तथापि यूयं 'दृढा भवत' मा कामपि शङ्कां कुरुध्वम् , अत्रार्थे सर्वमप्यहं भलिप्यामि, अतस्तत्र बजामो वयम् ॥ २१४० ॥ एवं भणतः प्रायश्चित्तमाह
10 भिक्खू साहइ सोउं, व भणइ जइ वञ्चिमो तहिं मासो। __ लहुगा गुरुगा वसभे, गणिस्स एमेवुवेहाए ॥ २१४१॥ यदि भिक्षुरनन्तरोक्तं वचनं कथयति श्रुत्वा वा यदि भिक्षुरेव भणति 'बाढम् , जामस्तत्र वयम्' ततो मासलघु प्रायश्चित्तम् । अथ 'वृषभः' उपाध्याय एवं ब्रवीति प्रतिशृणोति वा ततस्तस्य चत्वारो लघवः । 'गणिनः' आचार्यस्येत्थं भणतः प्रतिशृण्वतो वा चत्वारो गुरवः । एवमेवोपे-15 क्षायामपि द्रष्टव्यम् । किमुक्तं भवति ?-इत्थं तेनोक्ते 'व्रजामो वयम्' इति वा प्रतिश्रुते यदि भिक्षुरुपेक्षां करोति तदा तस्य लघुमासिकम् , वृषभस्योपेक्षमाणस्य चतुर्लघु, आचार्यस्योपेक्षा कुर्वाणस्य चतुर्गुरु ॥ २१४१ ॥ अथवा
सामत्थण परिवच्छे, गहणे पयभेद पंथ सीमाए ।
गामे वसहिपवेसे, मासादी भिक्खुणो मूलं ॥ २१४२॥ 20 भिक्षुः 'तत्र गन्तव्यम् ? न वा?' इति “सामत्थणं" देशीशब्दत्वात् पर्यालोचनं करोति मासलघु । “परिवच्छि” त्ति देशीशब्दोऽयं निर्णयार्थे वर्तते, ततो 'गन्तव्यमेव तत्र' इति निर्णय करोति मासगुरु । “गहणे" त्ति निणीय यापधिं गृह्णाति ततश्चतुर्लघु । पदभेदं कुर्वतश्चतुर्गुरुकम् । पथि व्रजतः षड्लघुकम् । ग्रामसीमायां प्राप्तस्य षड्गुरुकम् । (ग्रन्थाग्रम्-३५०० । सर्वग्रन्थाग्रम्-१५७२०) ग्रामं प्राप्तस्य च्छेदः । वसतौ प्रवेशं कुर्वतो मूलम् । एवं भिक्षोलघुमासादा-25 रभ्य मूलं यावत् प्रायश्चित्तमुक्तम् ॥ २१४२ ॥
गणि आयरिए सपदं, अहवा वि विसेसिया भवे गुरुगा।
भिक्खूमाइचउण्हं, जइ पुच्छसि तो सुणसु दोसे ॥२१४३ ॥ 'गणिनः' उपाध्यायस्य मासगुरुकादारभ्य खपदमनवस्थाप्यं यावत् , आचार्यस्य तु चतुर्लघुकादारभ्य खपदं पाराञ्चिकं यावत् प्रायश्चित्तं ज्ञेयम् । अथवा भिक्षु-वृषभो-पाध्याया-ऽऽचार्याणां 30 चतुर्णामपि तपः-कालविशेषिताश्चतुर्गुरुकाः । तद्यथा-भिक्षोभ्यामपि लघवः तपसा कालेन च, वृषभस्य कालेन गुरवस्तपसा लघवः, उपाध्यायस्य तपसा गुरवः कालेन लघवः, आचार्यस्य १°स्य चतु° भा० ता. मो. ले. ॥ २°त्तं मन्तव्यम् त. डे. कां ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org