SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथाः २१२७-३३] प्रथम उद्देशः । ६१३ कचिद ग्रामादौ १ । एका वगडा अनेकानि द्वाराणि, यथा प्राकारादिपरिक्षिप्ते चतुारनग. रादौ २ । अनेका वगडा एकं द्वारम् , यथा पद्मसरःप्रभृतिपरिक्षिप्ते वहुपाटके ग्रामादौ ३ । अनेका दगडा अनेकानि द्वाराणि, यथा पुप्पावकीर्णगृहे ग्रामादौ ४, एषः 'चरमः' चतुर्थो भङ्गः ॥ २१२९ ॥ यदि नामवं चत्वारो भगान्ततः प्रस्तुते किमायातम् ? इत्याह तइयं पड़च्च भंगं, पउमसराईहिं संपरिक्खित्ते । अन्नोन्नदुवाराण वि, हवेज एगं तु निक्खमणं ।। २१३० ॥ अत्र भङ्गचतुष्टये तृतीयं भङ्गं प्रतीत्य एकद्वारग्रहणमेकनिष्क्रमण-प्रवेशग्रहणं च सूत्रे कृतम् । कुतः ? इत्याह-पद्मसरसा आदिशब्दाद् गर्तया पर्वतेन वा सम्परिक्षिप्ते ग्रामादौ अन्यान्यद्वारकाणामपि पाटकानामेकमेव निष्क्रमणं भवेत् , तिसृषु दिक्षु पद्मसरःप्रभृतिव्याघातसम्भवादेकस्यामेव दिशि निष्क्रमण-प्रवेशौ भवत इति भावः ॥ २१३० ॥ ततः किम् ? इत्याह- 10 तत्थ वि य होति दोसा, वीयारगयाण अहव पंथम्मि । संकादीए दोसे, एगवियाराण वोच्छिहिई ॥ २१३१ ॥ तत्रापि च' तृतीयभङ्गे सपृथक्पाटकेषु स्थितानामपि, किं पुनः प्रथमभङ्गे द्वितीयभङ्गे वा स्थितानामित्यपिशब्दार्थः, » 'विचारगतानां' संज्ञाभूमौ सम्प्राप्तानाम् अथवा तस्या एव 'पथि' मार्गे गच्छतां 'दोषाः' शङ्कादयो भवन्ति । ताँश्च शङ्कादीन् दोषान् 'एकविचाराणाम्' 15 एकसंज्ञाभूमीकानां निर्ग्रन्थानां निर्ग्रन्थीनां च सूरिः स्वयमेव नियुक्तिगाथाभिर्यथावसरमुत्तरत्र (गाथा २१७४-७७) 'वक्ष्यति' भणिष्यति ॥ २१३१ ॥ तत्र प्रथमभङ्गे तावद् दोषानुपदिदर्शयिषुराह एगवगडं पडुच्चा, दोण्ह वि वग्गाण गरहितो वासो। जइ वसइ जाणओ ऊ, तत्थ उ दोसा इमे होंति ॥ २१३२॥ 20 एकवगडम् उपलक्षणत्वादेकद्वारं च क्षेत्रं प्रतीत्य 'द्वयोरपि वर्गयोः' साधु-साध्वीलक्षणयोरेकत्र वासः 'गर्हितः' निन्दितः, न कल्पत इत्यर्थः । यदि सः 'ज्ञायकः' 'संयत्योऽत्र सन्ति' इति जानानस्तत्रागत्य वसति ततः 'इमे' वक्ष्यमाणा दोषा भवन्ति ॥ २१३२॥ इदमे सविशेषमाहएगवगडेगदारे, एगयर ठियम्मि जो तहिं ठाइ । 25 गुरुगा जइ वि य दोसा, न होज पुट्टो तह वि सो उ॥ २१३३॥ एकवगडे एकद्वारे च क्षेत्रे यत्र पूर्वमेकतरः-संयतवर्गः संयतीवर्गों वा स्थितो वर्तते तत्र अनेकवगडा एकद्वारा ३ अनेकवगडा अनेकद्वारा ४ । एषः 'चरमः' चतुर्थो भगः ॥२१२९ ॥ भा०॥ १ "तत्थ वि य० गाधा कंठा । अतोऽथं च 'एगदुवाराए एगनिक्खमण-पवेसाए' कतं सूत्रम् । यथा दोषा भवन्ति तथा नियुक्तिगाथाभिर्वक्ष्यत्याचार्यः ।" इति चूर्णी विशेषचूर्णां च ॥ २॥ एतच्चिनान्तर्गतः पाठः भा० नास्ति ॥ ३°टकस्थि ता. मो० ले० ॥ ४ संयत-संयतील° भा० ॥ ५'तः, प्रतिकृष्ट इत्यर्थः भा०॥ ६ यदि तत्र 'झायकः' जानानः सन् वसति भा० ॥ ७°वस्फुटतरमाह भा० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002512
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 03
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages364
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy