SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ ६१२ सनिर्युक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [वगडाते सूत्रम् १० अनेन सम्बन्धेनायातस्यास्य व्याख्या - अथ ग्रामे वा यावद् राजधान्यां वा यावत्करणाद् नगरे वा खेटे वा इत्यादिपदपरिग्रहः । एकवगडाके एकद्वारके एकनिष्क्रमण - प्रवेशके च क्षेत्रे नो कल्पते निर्ग्रन्थानां च निर्ग्रन्थीनां च एकतो मिलितानां 'वस्तुम्' अवस्थातुमिति सूत्रे - सङ्क्षेपार्थः ॥ विस्तरार्थं तु भाष्यकृदाह वगडा उ परिक्खेवो, पुव्वत्तो सो उदव्वमईओ । दारं गामस्त मुहं, सो चेव य निग्गम-पवेसो ॥ २१२७ ॥ 'वगडा नाम' ग्रामादेः सम्बन्धी परिक्षेपः । स तु' स पुनः परिक्षेपः 'द्रव्यादिकः ' द्रव्य-क्षेत्र -काल- भावभेदभिन्नः, यथा पूर्वम् - “पासाणिट्टग-मट्टिय-खोड - कडग कंटिगा भवे दवे ।" ( गा० ११२३ ) 10 इत्यादिना > मासकल्पप्रकृते उक्तस्तथैवात्रापि द्रष्टव्यः । 'द्वारं नाम' ग्रामस्य मुखम्, ग्रामप्रवेश इत्यर्थः । स एव च निर्गमेनोपलक्षितः प्रवेशो निर्गम-प्रवेशोऽभिधीयते ॥ २१२७ ॥ इत्थं सूत्रे व्याख्याते सति शिप्यः प्राह 5 दारस्स वा वि गहणं, कायव्वं अहव निग्गमपहस्स । जइ एगट्ठा दुन्नि वि, एगयरं बूहि मा दो वि ॥ २१२८ ।। 15 यदि तदेव द्वारं स एव च निर्गम-प्रवेशस्ततो हे आचार्य ! द्वारपदस्य वा ग्रहणं कर्त्तव्यम् अथवा निर्गम-प्रवेशपथपदस्य, यदि नाम द्वे अपि पदे अमू एकार्थे ततः 'एकतरम्' एकद्वारपदम् एकनिष्क्रमण-प्रवेशपदं वा सूत्रे 'ब्रूहि' भणेत्यर्थः, मा द्वे अपि ॥ २१२८ ॥ एवं शिष्येणोक्ते सूरिराह 20 चरिमो अणेगवगडा, अणेगदारा य भंगो उ ॥ २१२९ ।। ह बगडा -द्वारयोश्चत्वारो भङ्गाः, तद्यथा - एका वगडा एकं द्वारम्, यथा पर्वतादिपरिक्षिप्ते १ -1 * एतच्चिह्नान्तर्गतः पाठः भा० कां० नास्ति ॥ २ 'त्रसमुदायार्थः कां० ॥ ३ 'माईसु ता० ॥ ४ त० डे० कां० विनाऽन्यत्र - 'म' वृत्यादिकः परि° भा० । म परि° ता० मो० ० ॥ एतदन्तर्गतः पाठः भा० नास्ति ॥ ५ ६ एकतरं ब्रूहि मा द्वे, तद्यथा-से गामंसि वा जाव रायहाणिसि चा एगवगडाए एग दुबारा नो कप्पइ निग्गंथाण य निग्गंधीण य एगयओ वत्थए; अथवा – से गामंसि वा जाव रायहाणिसि वा एगवगडाए एगनिक्खमण-पवेसाए नो कप्पइ निग्गंथाण य निग्गंधीण य एगयओ वत्थए; एवं च कृते सूत्रं लघुतरमुपजायते, अर्थोऽपि स एव भवति ॥ २१२८ ॥ इत्थं शिष्ये भा० । एगवगडेगदारा, एगमणेगा अणेग एगा य । "दारस्स० गाधा । यदि तदेव द्वारं तदेव च निर्गम-प्रवेशः अतो द्वयोरप्येकार्थत्वादेकतरस्य ग्रहणं कर्तव्यम् न द्वयोरपि कथं पुनः ? - से गामंसि वा नगरंसि वा जावरायहाणिसिवा ] एगवगडाए एगदुवाराए नो कप्पइ निग्गंथाणं निग्गंधीण; अहवा – एगवगडाए एगनिक्खमण-प्पवेसाए नो कप्पड़ निग्गंथाणं निग्गंथीणं; एवमुक्ते लघु च सूत्रं भवति स एवार्थः ॥ एवमुक्ते आचार्य आह - एगवगडे० गाहा ॥” इति चूर्णो विशेषचूर्णो च ॥ ७ अत्र चत्वारो भङ्गाः, तद्यथा - एकवगडा एकद्वारा १ एकवगडा अनेकद्वारा २ For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.002512
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 03
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages364
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy