SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ ॥ णमो त्थु णं गोयमाइगणहराणं तस्सीस-पसीसाण य॥ स्थविर-आर्यभद्रवाहुखामिसन्दृब्धं खोपज्ञनियुक्तिसमेतं बृहत् कल्पसूत्रम् । • श्रीसङ्घदासगणिक्षमाश्रमणसूत्रितेन लघुभाष्येण भूषितम् । तपाश्रीक्षेमकीर्त्याचार्यविहितया वृत्त्या समलङ्कृतम् । -42 प्रथम उद्देशः। [प्रलम्बप्रकृत-मासकल्पप्रकृतानन्तरवर्त्यशः ।] व ग डा प्रकृतम्१ व्याख्यातानि मासकल्पविषयाणि चत्वार्यपि सूत्राणि । सम्प्रत्यग्रेतनसूत्रमारभ्यते--- से गामंसि वा जाव रायहाणिसि वा एगवगडाए एगदुवाराए एगनिक्खमण-प्पवेसाए नो कप्पइ निग्गं थाण य निग्गंथीण य एगतओ वत्थए १-१०॥ अथास्य सूत्रस्य कः सम्बन्धः ? इत्याह गाम-नगराइएसुं, तेसु उ खेत्तेसु कत्थ वसियन्वं । जत्थ न वसंति समणीमब्भासे निग्गपहे वा ॥ २१२५ ॥ ग्राम-नगरादिषु तेषु' पूर्वसूत्रोक्तेषु क्षेत्रेषु कुत्र वस्तव्यम् ? इति चिन्तायामनेन सूत्रेण प्रतिपाद्यते---यत्र ‘अभ्यासे' स्वप्रतिश्रयासन्ने 'निर्गमपथे वा' निर्गमद्वारे श्रमण्यो न वसन्ति तत्र वस्तव्यमिति ॥ २१२५ ॥ ॥ अथ प्रकारान्तरेण सम्बन्धमाह अहवा निग्गंधीओ, दट्ट ठिया तेसु गाममाईसु । मा पिल्लेही कोई, तेणिम सुत्तं समुदियं तु ॥ २१२६ ॥ अथवा निर्ग्रन्थीस्तेषु प्रामादिषु स्थिता दृष्ट्वा मा 'कश्चिद्' आचार्यादिस्तत्रागत्य 'प्रेरयेत्' निष्काशयेदिति एतेन कारणेनेदं सूत्रं 'समुदितं' समायातम् ॥ २१२६ ॥~ ११ एतच्चिह्नान्तर्गतपाठस्थाने भा० पुस्तके सूत्रम् इत्येतावदेव वर्तते ॥ २°णी अम्मा ता० ॥ ३- एतचिह्नान्तर्गतमवतरणं गाथा तट्टीका च भा० पुस्तके न विद्यन्ते । चूर्णी विशेषचूर्णावपि च नेयं गाथा व्याख्याता वरीवृत्यत इति । गाथैषा बृहद्भाष्ये वर्तते । ४ पिल्लेजिहि को ता०॥ ५°ति । अत इदं सूत्रं ता० मो० ले० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002512
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 03
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages364
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy