________________
भाष्यगाथाः ३२७८-८४ ]
प्रथम उद्देशः ।
एमेव तेलि - गोलिय- पूर्विय मोरंड - दुस्सिए चैव ।
जं देह तस्स मोल, दलामि पुच्छा य महगिरिणो ।। ३२८१ ॥
एवमेव तैलिकास्तैलम्, गोलिकाः - मथितविक्रायिकास्तत्रादिकम्, पौपिका अपूपादिकम्, मोरेण्डकाः - तिलादिमोदकाः तद्विक्रायिकाखिलादिमोदकान्, दौध्यिका वस्त्राणि च दापिताः । कथम् ? इत्याह-यत् तैल तक्रादि यूयं साधूनां दत्थ तस्य मूल्यमहं भवतां प्रयच्छामीति 15 ततश्चाहार-वस्त्रादौ किमीप्सिते लभ्यमाने श्रीमहागिरिरार्यमुहस्तिनं पृच्छति - आर्य ! प्रचुरमाहार-वस्त्रादिकं प्राप्यते ततो जानीष्व मा राज्ञा लोकः प्रवर्तितो भवेत् ।। ३२८१ ॥ असुहत्थि ममत्ते, अणुरायाधम्मतो जणो देती ।
संभोग वीसुकरणं, तक्खण आउट्टणें नियती ॥। ३२८२ ॥
आर्यसुहस्ती जानानोऽप्यनेषणामात्मीयशिष्यममत्वेन भणति क्षमाश्रमणाः ! 'अनुराज- 10 धर्मतः' राजधर्ममनुवर्त्तमान एष जन एवं यथेप्सितमाहारादिकं प्रयच्छति । तत आर्यमहागिरिणा भणितम् - आर्य ! त्वमपीदृशो बहुश्रुतो भूत्वा यद्येवमात्मीयशिष्यममत्वेनेत्थं ब्रवीषि, ततो मम तव चाद्यप्रभृति विष्वक्सम्भोगः - नैकत्र मण्डल्यां समुद्देशनादिव्यवहार इति; एवं सम्भोगस्य विष्वक्करणमभवत् । तत आर्यसुहस्ती चिन्तयति -- ' मया तावदेकमनेषणीयमाहारं आनताऽपि साधवो ग्राहिताः, स्वयमपि चानेषणीयं भुक्तम्, अपरं चेदानीमहमित्थमपलपामि, 15 तदेतद् मम द्वितीयं बालस्य मन्दत्वमित्यापन्नम् ; अथवा नाद्यापि किमपि विनष्टं भूयोऽप्यहमेतस्मादर्थात् प्रतिक्रमामि' इति विचिन्त्य तत्क्षणादेवावर्त्तनमभवत् । ततो यथावदालोचनां दत्त्वा खापराधं सम्यक् क्षामयित्वा तस्या अकल्पप्रतिसेवनायास्तस्य निवृत्तिरभूत् । ततो भूयोऽपि तयोः साम्भोगिकत्वमभवत् ॥ ३२८२ ॥
अथ “त्रसजीवप्रतिक्रामकः " ( गा० ३२७८ ) इत्यस्य भावार्थमाह -
सोरायाऽवंतिवती, समणाणं सावतो सुविहिताणं ।
पञ्चतियरायाणो, सव्वे सद्दाविया तेणं ।। ३२८३ ॥
Jain Education International
९१९
'सः' सम्प्रतिनामा राजा अवन्तीपतिः श्रमणानां 'श्रावकः' उपासकः पञ्चाणुव्रतधारी अभवदिति शेषः । ते च शाक्यादयोऽपि भवन्तीत्यत आह- 'सुविहितानां' शोभनानुष्ठानानाम् । ततस्तेन राज्ञा ये केचित् प्रात्यन्तिकाःगः - प्रत्यन्तदेशाधिपतयो राजानस्ते सर्वेऽपि ' शब्दा- 25 पिताः' आकारिताः ॥ ३२८३ ॥
ततः किं कृतम् ? इत्याह
-
१ “मोरंडा नाम रोहमया गोलया जारिसया कीरति ।" इति विशेषचूर्णो ॥
२ 'भृति विसम्भो' मो० के० बिना ॥
कहिओ य तेसि धम्मो, विस्थरतो गाहिता य सम्मत्तं ।
अप्पाहिता य बहुसो, समणाणं भदगा होह ।। ३२८४ ॥
कथितश्च 'तेषां' प्रात्यन्तिकराजानां तेन विस्तरतो धर्मः । ग्राहिताश्व ते सम्यक्त्वम् । ततः 30
20
For Private & Personal Use Only
www.jainelibrary.org