________________
भाष्यगाथाः ३२६५-७४] प्रथम उद्देशः ।
श्रमणगुणाः-मूलोत्तरगुणरूपाः, तत्र पञ्च महाव्रतानि मूलगुणाः, उद्गमोत्पादनैषणादोषविशुद्धिः अष्टादश शीलाङ्गसहस्राणि चोत्तरगुणाः, तान् वेत्ति--जानातीति श्रमणगुणविद् , ईदृशः 'अत्र' आर्यजनपदे 'जनः' लोकः । अत्र च 'उपधिः' औधिक औपग्रहिकश्च 'खतन्त्रेण' खसिद्धान्तोक्तेन प्रकारेण 'अविरुद्धः' अदूषितः 'सुलभः' सुखेनैव लभ्यते । एते आर्यविषये विहरतां गुणा भवन्ति । तथा ज्ञानस्य चरणस्य उपलक्षणत्वाद् दर्शनस्य चात्र वृद्धिर्भवति, व्याघा-5 ताभावाद् ज्ञान-दर्शन-चारित्राणि स्फातिमुपगच्छन्तीति भावः । गच्छस्य चात्र वृद्धिर्भवति, बहूनां भव्यजन्तूनां प्रव्रज्याप्रतिपत्तिः(तेः) ॥ ३२६९॥
एत्थ किर सणि सावग, जाणंति अभिग्गहे सुविहियाणं ।
एतेहि कारणेहिं, बहिगमणे होंतिऽणुग्घाया ॥ ३२७० ॥ 'अत्र किल' आर्यक्षेत्रे संज्ञानं संज्ञा-देव-गुरु-धर्मपरिज्ञानं सा विद्यते येषां ते संज्ञिनः-10 अविरतसम्यग्दृष्टयः, 'श्रावकाः' प्रतिपन्नाणुव्रताः, एते 'सुविहिताना' साधूनामभिग्रहान् जानन्ति । अभिग्रहा नाम यथेत्थमाहारादिकममीषां कल्पते इत्थं च न कल्पते, अथवा अभिग्रहा:-द्रव्यक्षेत्र-काल-भावविषयाः प्रागुक्तखरूपाः तान् ज्ञात्वा ते संज्ञि-श्रावकास्तथैव प्रतिपूरयन्ति । एतैः कारणैरार्यजनपदे विहारः कर्तव्य इति वाक्यशेषः । यद्यार्यक्षेत्राद् बहिर्गच्छति ततश्चत्वारो अनुदाता मासाः प्रायश्चित्तम् ॥ ३२७० ॥
15 आणादिणो य दोसा, विराहणा खंदएण दिद्वंतो।
एतेण कारणेणं, पडुच्च कालं तु पण्णवणा॥३२७१ ॥ आज्ञादयश्च दोषाः । विराधना चात्म-संयमविषया । तत्र च स्कन्दकाचार्येण दृष्टान्तः कर्तव्यः । अत एतेन कारणेन बहिन गन्तव्यम् । एतद् भगवद्वर्धमानखामिकालं प्रतीत्योक्तम् । इदानीं तु सम्प्रतिनृपतिकालं प्रतीत्य प्रज्ञापना क्रियते यत्र यत्र ज्ञान-दर्शन-चारि-20 त्राण्युत्सर्पन्ति तत्र तत्र विहर्त्तव्यम् ॥ ३२७१ ॥ अथ स्कन्दकाचार्यदृष्टान्तमाह
दोचेण आगतो खंदएण वादे पराजितो कुवितो। खंदगदिक्खा पुच्छा, णिवारणाऽऽराध तव्वजा ॥ ३२७२॥ उआणाऽऽयुध णूमण, णिवकहणं कोव जंतयं पुव्वं । बंध चिरिक णिदाणे, कंबलदाणे रयोहरणं ॥ ३२७३ ॥ अग्गिकुमारुववातो, चिंता देवीय चिण्ह रयहरणं ।
खिजण सपरिसदिक्खा, जिण साहर वात डाहो य ॥ ३२७४ ॥ सावत्थी नयरी | जियसत्तू राया । धारिणी देवी । तेसिं पुत्तो खंदतो कुमारो जुवराया । भगिणी से पुरंदरजसा । सो य खंदतो साक्तो अभिगतो । इओ य उत्तरावहे 30 पचंते कुंभकारकडं नगरं । दंडती राया। तस्स पुरोहितो पालतो । सा पुरंदरजसा दंड१°दानीन्तनं तु कालं प्र° भा० ।।
-
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org