________________
९०८ सनियुक्ति-लधुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ आर्यक्षेत्रप्रकृते सूत्रम् ५० इवेदमन्त्यदीपकमवसातव्यम् । ततश्चेदमुक्तं भवति ?-एतत् कल्पाध्ययनं प्रथमोद्देशकं वा न जानाति स गणपरिवर्ती भगवद्भिर्नानुज्ञातः ॥ ३२४५॥
इदमेव प्रचिकटयिपुः "तत्राचार्ये ज्ञातमिदं भवति” (गा० ३२४४) इति पदं व्याख्यानयति
जो गणहरो न याणति, जाणंतो वा न देसती मग्गं ।
सो सप्पसीसगं पिव, विणस्सती विजपुत्तो वा ॥ ३२४६ ॥ यः कश्चिद् गणधरः 'मार्ग' यथोक्तसामाचारीरूपं न जानाति, जानाति वा परं न शिष्याणां तं मार्गमुपदिशति स सर्पशीर्षकमिव वैद्यपुत्र इव वा विनश्यति ॥ ३२४६ ॥
तत्थं इमं कप्पियं उदाहरणं--एगो सप्पो निच्चं पलोएंतो अप्पणो जहासुहं विहरइ । 10 ताहे से पुंछडा भणति--तुमं निच्चमेव पुरतो गच्छसि । अन्यच्च
सी-उण्ह-वासे य तमंधकारे, णिचं पि गच्छामि जतो मि णेसी ।
गंतव्वए सीसग! कंचि कालं, अहं पिता होज पुरस्सरा ते ।। ३२४७ ॥ भोः शीर्षक ! नित्यमाम्यहं भवत्पृष्ठलग्ना सती यतो यतो मां नयसि तत्र तत्र शीते वा उष्णे वा वर्षे वा निपतति 'तमोऽन्धकारे वा' बहलतमःपटलविलुप्ते प्रदेशे गच्छामि, किं करोमि ? 15 परं साम्प्रतं कञ्चित् कालं 'गन्तव्ये' गमनेऽहमपि तावत् 'ते' तव पुरस्सरा भवेयम् ॥ ३२४७॥
शीर्षकं प्राह
ससक्करे कंटइले य मग्गे, वजेमि मोरे णउलादिए य । ।
बिले य जाणामि अदुट्ट दुढे, मा ता विसूराहि अजाणि एवं ॥ ३२४८॥ हे पुच्छिके ! अंहं पुरस्सरं गच्छन् सन्। 'सशर्करान्' कर्करयुक्तान् कण्टकाकुलाँश्च मार्गान् 20 वर्जयामि । यत्र च मयूरान् नकुलादींश्चात्मोपद्रवकारिणः पश्यामि तत्र न गच्छामि । बिलानि
चामूनि अदुष्टानि अमूनि च दुष्टानि इत्येवमहं सम्यग् जानामि । त्वं पुनरेतेषां मध्यादेकमपि न जानासि । अतस्त्वमेवमज्ञा सती मा तावत् “विसूराहि" ति "खिदेर्जूर-विसूरौ” ( सिद्ध० ८-४-१३२) इति प्राकृतलक्षणबलाद् मा खेदमनुभवेत्यर्थः ॥ ३२४८॥ पुच्छिका प्राह
तं जाणगं होहि अजाणिगा हं, पुरस्सरं ताव भवाहि अन्ज । 25 एसा अहं गंगलिपासएणं, लग्गा दुअं सीसंग! वच्च वच्च ॥ ३२४९ ॥ ___ शीर्षक ! त्वं ज्ञायकं भव, अहह्मज्ञायिकाऽपि स्थास्यामि, 'पुरस्सरम्' अग्रगामुकं तावत् त्वमद्य भव, अहं पुनरेषा नङ्गलिपाशकेन लग्ना अत्रैव स्थिता, त्वं पुनः 'द्वतं' शीघ्रं व्रज ब्रजेति
१°पकं सकलप्रथमोद्देशकविषयमव का० ॥ . २ ता० त० डे. मो० ले० विनाऽन्यत्र-य एनां प्रथमोद्देशकभणितां सामाचारी न जानाति भा० । य एतदखिलमपि कल्पाध्ययनमेकमेव वा प्रथमोद्देशकमर्थतो न जानाति का० ॥
३ इति नियुक्तिगाथापदं कां० ॥ ४ 'मार्ग' प्रस्तुतशास्त्रोक्तसामा का० ॥ ५ °थ सप्पसीसगोदाहरणं ताव भन्नइ-एगो कां० ॥ ६ °तो मणे मो० ले. कां० विना ॥ ७°व्ये कालेऽहम भा० ॥ ८ » एतदन्तर्गतः पाठः कां० एव वर्तते ॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org