________________
९०७
भाष्यगाथाः ३२४०-४५] प्रथम उद्देशः । सूत्राणि 'काले च भावे च' उभयोरपि प्रतिषेधकानि भवन्ति ॥ ३२४१ ॥ ३२४२ ॥
अहवण सुत्ते सुत्ते, दव्वादीणं चउण्हमोआरो।
सो य अधीणो वत्तरि, सोतरि य अतो अणियमोऽयं ॥ ३२४३ ॥ अथवा न पृथग् द्रव्यादिविषयाणि सूत्राणि, किन्तु सूत्रे सूत्रे 'चतुर्णा' द्रव्य-क्षेत्र-कालभावानामवतारः प्रदर्शयितव्यः । 'स च' अवतारो वक्तरि श्रोतरि च 'अधीनः' आयत्तः, यदि 5 वक्ता तथाविधप्रतिपादनशक्तिसमन्वितः श्रोता च ग्रहण-धारणालब्धिसम्पन्नः तदा भवति सूत्रे सूत्रे चतुर्णा द्रव्यादीनामवतारः, अन्यदा तु नेति भावः । अतो नायं नियमो यदवश्यं प्रतिसूत्रं द्रव्यादिचतुष्टयमवतारणीयमिति ॥ ३२४३ ॥
अनेन सम्बन्धेनायातस्यास्य व्याख्या-कल्पते निर्ग्रन्थानां वा निर्ग्रन्थीनां वा पूर्वस्यां दिशि यावदङ्ग-मगधान 'एतुं' विहर्तुम् । अङ्गा नाम-चम्पाप्रतिबद्धो जनपदः । मगधा-राजगृह- 10 प्रतिबद्धो देशः । दक्षिणस्यां दिशि यावत् कौशाम्बीमेतुम् । प्रतीच्यां दिशि स्थूणाविषयं यावदेतुम् । उत्तरस्यां दिशि कुणालाविषयं यावदेतुम् । सूत्रे पूर्व-दक्षिणादिपदेभ्यस्तृतीयानिर्देशो लिङ्गव्यत्ययश्च प्राकृतत्वात् । एतावत् तावत् क्षेत्रमवधीकृत्य विहां कल्पते । कुतः ? इत्याहएतावत् तावद् यस्मादार्य क्षेत्रम् । नो "से" तस्य निर्ग्रन्थस्य निर्ग्रन्थ्या वा कल्पते' 'अतः' एवंविधाद् आर्यक्षेत्रादू बहिर्विहर्तुम् । 'ततः परं' बहिर्देशेषु । अपि सम्प्रतिनृपतिकालादा- 15 रभ्य » यत्र ज्ञान-दर्शन-चारित्राणि 'उत्सर्पन्ति' स्फातिमासादयन्ति तत्र विहर्त्तव्यम् । 'इतिः' परिसमाप्तौ । ब्रवीमि इति तीर्थकर-गणधरोपदेशेन, न तु स्वमनीषिकयेति सूत्रार्थः ॥ अथ नियुक्तिविस्तरः
जो एतं न वि जाणइ, पढमुद्देसस्स अंतिमं सुत्तं ।
अहवण सव्वऽज्झयणं, तत्थ उ नायं इमं होइ ॥ ३२४४॥ 20 'यः' आचार्यः ‘एतत्' प्रस्तुतं प्रथमोद्देशकस्यान्त्यं सूत्रं न जानाति, अथवा सर्वमपीदं करूपाध्ययनं यो न जानाति, 'तत्र' आचार्य तद्विषयमित्यर्थः 'इदं' वक्ष्यमाणं 'ज्ञातम्' उदाहरणं भवति ॥ ३२४४ ॥ आह किमर्थं प्रथमोद्देशकस्यान्त्यं सूत्रं न जानातीत्युक्तम् ? उच्यते
उज्जालितो पदीवो, चाउस्सालस्स मज्झयारम्मि ।
पमुहे वा तं सव्वं, चाउस्सालं पगासेति ॥ ३२४५॥ 'चतुःशालस्य' गृहस्य 'मध्यकारे' मध्यभागे 'प्रमुखे वा' प्रवेश-निर्गममुखे प्रदीप उज्ज्वालितः सन् 'तत्' चतुःशालं सर्वमपि प्रकाशयति; एवमत्रापि सकलाध्ययनमध्यवर्तिनि प्रस्तुतसूत्रे यदिदं प्रथमोद्देशकस्यान्त्यसूत्रं न जानातीत्युक्तं तद् मध्यदीपंकमवगन्तव्यम् । यद्वा यस्मादत्र प्रथमोद्देशके समासतः सर्वाऽपि सामाचारी समर्थिता ततश्चतुःशालप्रमुखोज्वालितप्रदीप १°ते 'इतः' एवं° भा० ॥ २ » एतदन्तर्गतः पाठः मो० ले० कां० एव वर्त्तते ॥ ३ सूत्रसङ्केपार्थः ॥ अथ विस्तरार्थ भाष्यकृद् बिभणिषुराह-जो एतं भा० ॥ ४°मर्थ प्रथमाध्ययनमध्यवर्तिनि प्रस्तुतसूत्रे यदिदं प्रथमो का० ॥ ५°पकं सकलाध्ययनविषयमव का० ॥
25
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org