________________
९०६ सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ आर्यक्षेत्रप्रकृते सूत्रम् ५०
तेण परं जत्थ नाण-दसण-चरित्ताई उस्सप्पंति
'त्ति बेमि ५०॥ अथास्य सूत्रस्य कः सम्बन्धः ? इत्याह
इति काले पडिसेहो, परूवितो अह इदाणि खेत्तम्मि ।
चउदिसि समणुण्णायं, मोत्तूण परेण पडिसेहो ॥ ३२४० ॥ 'इति' अमुना प्रकारेण रात्रिलक्षणो यः कालस्तद्विषयः प्रतिषेधः पूर्वसूत्रे प्ररूपितः, 'अथ' अनन्तरमिदानी क्षेत्रविषयः प्ररूप्यते । कथम् ? इत्याह-चतसृषु दिक्षु यावत् क्षेत्रमत्र सूत्रे समनुज्ञातं तावद् मुक्त्वा 'परेण' बहिःक्षेत्रेषु विहारस्य प्रतिषेधो मन्तव्यः॥ ३२४०॥ किञ्च
। हेवा वि य पडिसेहो, दवादी दचे आदिसुत्तं तु । 10
घडिमत्त चिलिमिणीए, वत्थादी चेव चत्तारि ॥ ३२४१ ॥ वगडा रच्छा दगतीरगं च विह चरमगं च खित्तम्मि ।
सारिय पाहुड भावे, सेसा काले य भावे य ॥ ३२४२ ॥ अंधस्तनसूत्रेष्वपि 'द्रव्यादिः' द्रव्य-क्षेत्र-काल-भावविषयः प्रतिषेधो मन्तव्यः । तत्र द्रव्यप्रतिषेधपरम् 'आदिसूत्र' प्रलम्बप्रकृतमित्यर्थः (सू०१-५) तथा घटीमात्रसूत्रं (सू० १६, 15१७) चिलिमिलिकासूत्रं च (सू० १८)। वस्त्रादिप्रतिषेधकानि च चत्वारि सूत्राणि
एकं तावत् “निग्गंथं च णं गाहावइकुलं० अणुप्पविर्से केइ वत्थेण वा पाएण वा०" (सू० ३८) इत्यादिलक्षणम्, द्वितीयमिदमेव "बहिया वियारभूमि वा विहारभूमि वा०" (सू० ३९) इति विशेषितम् , तृतीय-चतुर्थे त्वेवमेव निम्रन्थीविषये (सू० ४०, ४१), एतान्यपि
द्रव्यप्रतिषेधपराणि । तथा वगडासूत्रं (सू० १०,११) रथ्यामुखाऽऽपणगृहादिसूत्रं 20(सू० १२,१३ ) दकतीरसूत्रं (सू०१९) 'विहं' अध्वा तद्विषयं सूत्रं (सू० ४६) » एतदेव च प्रस्तुतं चरमसूत्रं (सू० ५०) एतानि क्षेत्रप्रतिषेधपराणि । तथा यान्योघतो विभागतश्च सागारिकसूत्राणि (सू० २२-२९) यच 'प्राभृतम्' अधिकरणं तद्विषयं सूत्रं (सू० ३४ ) एतानि भावप्रतिषेधपराणि । 'शेषाणि तु' मासकल्पप्रकृतप्रभृतीनि (सू० ६-९) सर्वाण्यपि
१त्ति बेमि इति पाठः केवलं कां० प्रतावेव वर्तते । नान्यावस्मत्समीपस्थितासु टीकाप्रतिषु मूलसूत्रप्र. तिषु वा दृश्यते । व्याख्यातश्चायमंशः टीकाकृतेत्यस्माभिर्मूल एवाहतः ॥
२ "हेट्ठा वि. गाधा । दव्यतो खेत्ततो कालतो भावतो। 'वत्यादि' त्ति वत्थं पडिग्गहं कंबलं पायपुंछणं । एए चत्तारि सुत्ता-पढमो-“गाहावइकुलं" (सू० ३८ ) बिइओ-“बहिया वियारभूमि" (सू० ३९) तइओ-गामाणुग्गाम, चउत्थो-वासावासं, एयं दव्वे । सागारियसुत्तं (सू० २२-२९) अहिकरणसुत्तं (सू • ३४) व भावे । सेसं कण्ठ्यम् ॥” इति विशेपचूर्णिः ॥ “हेट्ठा वि. गाधा । दबतो खेततो कालतो भावतो। वत्यादि त्ति वत्थं पडिग्गहं कंवलं पायपुंछणं । एतेसि हीणातिरेगपडिसेहो ॥ वगडा० गाधा। चरिमगं ति इदमेव मुत्तं (सू० ५०) । अहिगरणसुत्तं च (सू० ३४) भावे । सेसं कंठं ॥” इति चूर्णिः ॥ __३ °षयाणां प्रतिषेधानामन्यतमः कोऽपि क्वापि सूत्रे प्रतिषेधो का० ॥
४ - एतदन्तर्गतः पाठः भा० का. एव वर्तते ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org