________________
भाष्यगाथाः ३२३४-३९] प्रथम उद्देशः ।
पडिवत्तिकुसल अजा, सज्झायज्झाणकारणुजुत्ता।
मोत्तूण अब्भरहितं, अजाण ण कप्पती गंतुं ॥ ३२३७ ॥ प्रतिपत्तिः-उत्तरप्रदानं तत्र कुशला-निपुणा या काचिदार्या सा तस्याः सहाया समर्पणीया। तथा या सा आगाढयोगं प्रतिपन्ना सा खाध्यायस्य यद् ध्यानम्-एकाग्रतया करणं तत्रेदृशे कारणे उद्युक्ता भवेत् । “मोत्तूण अन्भरहियं" ति येषु कुलेषु यथाभद्रकादिषु संयतीनामाग-5 मनम् 'अभ्यर्हितं' गौरवाह तानि मुक्त्वाऽन्यत्र कुले आर्यिकाणां न कल्पते गन्तुम् ॥ ३२३७ ॥ ___ एवंविधे कुले गत्वा स्वाध्यायं कुर्वतीनां यद्यसौ गृहपतिः प्रश्नयेत् -किमर्थं भवत्य इहा. गताः ? ततः प्रतिपत्तिकुशलया वक्तव्यम्
सज्झाइयं नत्थि उवस्सएऽम्हं, आगाढजोगं च इमा पवण्णा ।
तरेण सोहद्दमिदं च तुभं, संभावणिजातों ण अण्णहा ते ॥ ३२३८॥ 10 हे श्रावक ! योऽयमस्माकमुपाश्रयः तत्र स्वाध्यायिकं नास्ति । इयं च संयती आगाढयोगं प्रतिपन्ना वर्तते । “तरेण" त्ति शय्यातरेण सह युष्माकम् ‘इदम्' ईदृशं सकलजनप्रतीतं सौहार्द तद् मत्वा वयमत्र समागताः । अतो नान्यथा त्वया वयं सम्भावनीयाः ॥ ३२३८ ॥ अपि च
खुद्दो जणो णत्थि ण यावि दूरे, पच्छण्णभूमी य इहं पकामा ।
तुम्भेहि लोएंण य चित्तमेतं, सज्झाय-सीलेसु जहोजमो णे ॥ ३२३९ ।। 'क्षुद्रो जनः' दुर्जनलोक इह नास्ति, न चेदं युष्मद्गृहं 'दूरे' अस्मत्प्रतिश्रयाद् दूरवर्ति, प्रच्छन्नभूमिश्च 'इह' युष्मद्गृहे 'प्रकामा' विस्तृता, अतोऽत्रास्माकं स्वाध्यायो निर्व्याघातं निर्वहति । किञ्च युष्माकं लोकस्य च 'चित्तं' प्रतीतमेतत् , यथा--"णे" अस्माकं खाध्याय-शीलयोर्गाढतरः 'उद्यमः' प्रयत्नो भवति ॥ ३२३९॥
॥ विचारभूमि-विहारभूमिप्रकृतं समाप्तम् ॥
आ र्य क्षेत्र प्रकृतम्
25
सूत्रम्
कप्पइ निग्गंथाण वा निग्गंथीण वा पुरस्थिमेणं जाव अंग-मगहाओ एत्तए, दक्खिणेणं जाव कोसंबीओ, पञ्चत्थिमेणं जाव थूणाविसयाओ, उत्तरेणं जाव कुणालाविसयाओ एत्तए । एताव ताव कप्पइ ।
एताव ताव आरिए खेत्ते। णो से कप्पइ एत्तो बाहि । १°एहि य विनमेयं ता० । “विण्णं विज्ञातं" इति चूर्णौ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org