________________
भाष्यगाथाः ३२२५-३३ ]
प्रथम उद्देशः ।
९०३
इतस्ततः परिभ्रमन्ति तासां यतनया यथा अप्रीतिकं न भवति तथा स्मारणा कर्तव्या, यथाआर्ये ! इहागच्छ, इतो न भवति द्वारम् ॥ ३२२८ ॥ अथ द्वितीयपदमाह -
बियपद गिलाणाए, तु कारणा अहव होज एगागी ।
आगा कारणमि, गिहिणीसाए वसंतीणं ॥ ३२२९ ॥
द्वितीयपदे ग्लानायाः संयत्याः कारणादेकाकिन्यपि विचारभूमौ गच्छेत् । कथम् ? इति चेद् उच्यते - इह प्रवर्त्तिनी यदा आत्मतृतीया भवति, तत्राप्येका ग्लाना तत एका ग्लानायाः पार्श्वे तिष्ठति, द्वितीया तु निवेद्य निर्गच्छति । अथवा सा अशिवादिभिः कारणैरेकाकिनी भवेत् । तत्र च 'आगाढे' आत्यन्तिके कारणे गृहिनिश्रया वसन्तीनामेकाकिनीनां संयतीनां विधिरभिधीयते ॥ ३२२९ ॥
गाउ कारण ठिया, अविकारकुलेसु इत्थिबहुलेसु । तुन्भ वसीहं णीसा, अजा सेजातरं भणति ॥ ३२३० ॥
एका आर्यिका ' कारणेन' पुष्टालम्बनेन 'अविकारकुलेषु' हास्यादिविकारविरहितेषु स्त्री बहुलेषु कुलेषु स्थिता सती शय्यातरमित्थं भणति - अहं युष्मन्निश्रया वसामि यच्च मम किञ्चित् क्षूणमायाति तत्राहं भवद्भिः स्मरणीयां ॥ ३२३० ॥ इदमेव स्फुटतरमाह -
अपुव्वपुंसे अवि पेहमाणी, वारेसि धूतादि जहेव भजं ।
ताऽवराहेसु ममं पि पेक्खे, जीवो पमादी किमु जोऽवलाणं ।। ३२३१ ॥ भोः श्रावक ! यथा त्वम् 'अपूर्वपुंसः' अदृष्टपूर्व पुरुषान् पश्यन्तीमपि, आस्तां तैः सह सम्भाषणादि कुर्वाणामित्यपिशब्दार्थः, दुहितरम् आदिशब्दाद् भगिनीप्रभृतिकां भार्यां वा यथा वारयसि ; तथा 'अपराधेषु' स्खलितेष्वनुचितसन्दर्शनादिषु 'मामपि प्रेक्षख' अहमपि तथैव वारणीया, यतो जीवः सर्वोऽपि प्रायः 'प्रमादी' अनादिभवाभ्यस्तप्रमादबहुलः, किं पुनर्य : 20 'अबलानां' स्त्रीणां सम्बन्धी ? स चपलखभावतया सुतरां प्रमादीति भावः ॥ ३२३१॥ किञ्चपायं सकजग्गहणालसेयं, बुद्धी परत्थेसु उ जागरूका ।
तमाउरो पस्सति णेह कत्ता, दोसं उदासीणजणो जंगं तु || ३२३२ ॥ येयं प्रतिप्राणि स्वसंवेदनप्रत्यक्षा बुद्धिः सा प्रायः स्वं - स्वकीयं यत् कार्यं - हिता - ऽहितप्रवृत्तिनिवृत्तिरूपं तद्ग्रहणे-तत्परिच्छेदेऽलसा - जडा, 'परार्थेषु तु' परप्रयोजनेषु 'जागरूका' जागरण - 25 शीला, अत एव 'तं' दोषम् 'इह' जीवलोके 'कर्ता' आत्मीयकार्य साधको जनः 'आतुरः ' उत्सुकः सन् न पश्यति, यकं दोषम् 'उदासीनजनः ' मध्यस्थलोकः तटस्थः पश्यति । अतोऽहं भवतां पार्श्वादात्मानमहितेषु प्रवर्त्तमानं निवारयामीति प्रक्रमः ॥ ३२३२ ॥
१ या, नोपेक्षणीया भा० ॥
तेणिच्छिए तस्स जहिं अगम्मा, वसंति णारीतों तहिं वसेजा ।
30
ता वेति रतिं सह तुम्भ णीहं, अणिच्छमाणीसु विभेमि वेति ।। ३२३३ एवमुक्ते सति यद्यसौ श्रावक इच्छति तदुक्तं प्रतिपद्यते तदा 'तस्य' शय्यातरस्य यत्र ‘अगम्याः’ माता-भगिनीप्रभृतयो नार्यो वसन्ति तत्र सा एकाकिनी संयती वसेत् । ताश्च स्त्रियो
Jain Education International
२ जयं तु ता० ॥
10
For Private & Personal Use Only
15
www.jainelibrary.org