________________
९०२
सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ विचार०प्रकृते सूत्रम् ४९. करी, अत एव तस्या अबलेति नाम, अबला च स्वभावादेव चञ्चला, अत एव एकाकिनी श्रमणी रात्रौ विचारभूमौ गच्छन्ती आशङ्किता स्यात्-अवश्यमेषा व्यभिचारिणीति । अतो मा 'पुष्पभूतस्य' शिरीषपुष्पसुकुमारस्य शीलस्य विनाशो भवेदिति कृत्वा स्तोकानामार्याणां रात्रौ विचारभूमौ गन्तुं भगवन्तः 'न ददति' नानुजानन्तीत्यर्थः ॥ ३२२४ ।। । उपाश्रयेऽपि ताभिरीदृशे वस्तव्यमिति दर्शयति
गुत्ते गुत्तदुवारे, कुलपुत्ते इत्थिमज्झै निदोसे ।
भीतपरिस मद्दविदे, अज्जा सिज्जायरे भणिए ॥ ३२२५ ॥ 'गुप्तो नाम' वृत्यादिपरिक्षिप्तः, 'गुप्तद्वारः' सकपाटः, ईदृशे उपाश्रये स्थातव्यम् । शय्यातरश्च तासां कुलपुत्रको गवेषणीयः । तस्यैव शय्यातरस्य या भगिनीप्रभृतयः स्त्रियस्तासां सम्बन्धि 10 यद् गृहं तन्मध्यवर्ती संयतीनामुपाश्रयो भवति । सोऽपि 'निर्दोषः' पुरुषसागारिकादिदोषरहितः । कुलपुत्रकश्च भीतपर्षद् मार्दविकश्चान्वेषणीयः । भीतपर्षद नाम-यद्भयात् तदीयः परिवारो न कमप्यनाचारं कर्तुमुत्सहते । मार्दविको नाम-मधुरवचनः । ईदृश आर्यायाः शय्यातरो भणितः ॥ ३२२५ ॥ रात्रौ च प्रतिश्रये ताभिरियं यतना कर्त्तव्या
. पत्थारो अंतो बहि, अंतो बंधाहि चिलिमिली उवरिं । 15 तं तह बंधति दारं, जह णं अण्णा ण याणाई ॥ ३२२६ ॥ ___ 'प्रस्तारः' कटः स एकः प्रतिश्रयाभ्यन्तरे द्वितीयस्तु प्रतिश्रयाद् बहिः कर्तव्यः । 'अन्तश्च' अभ्यन्तरे कटस्योपरि चिलिमिलिकां 'बधान' नियन्त्रय । तत्र च प्रतिहारी तथा बध्नाति द्वारं यथा "गं" इति 'तान्' बन्धान् नान्या संयती मोक्तुं जानाति ॥ ३२२६ ॥
संथारेगंतरिया, अभिक्खणाऽऽउजणा य तरुणीणं ।
पडिहारि दारमले, मज्झे अपवत्तिणी होति ॥ ३२२७ ॥ 'संस्तारकः' प्रस्तरणमेकान्तरिताना तरुणी-वृद्धानां भवति । अमीक्ष्णं च तरुणीनां यतनया प्रवर्तिन्या प्रतिहारिकया च 'उपयोजना' सङ्घटना कर्त्तव्या । प्रतिहारी च द्वारमूले खपिति । 'मध्ये सर्वमध्यवर्तिनि प्रदेशे प्रवर्तिनी भवति ॥ ३२२७ ॥
निक्खमण पिंडियाणं, अग्गद्दारे य होइ पडिहारी ।
दारे पवत्तिणी सारणा य फिडिताण जयणाए ॥ ३२२८॥ ___ रात्रौ विचारभूमौ निष्क्रमणं 'पिण्डितानां' समुदितानी त्रि-चतुःप्रभृतीनामित्यर्थः । प्रतिहारी द्वारमुद्धाट्य प्रथमत एवाग्रद्वारे तिष्ठति । प्रवर्तिनी पुनारे स्थिता संयती या यदा प्रविशति तां शिरसि कपोलयोर्वक्षसि च स्पृष्ट्वा प्रवेशयति । याश्च तत्र स्फिटिताः द्वारविप्रनष्टा
90
व रात्रौ विचार भा० । भा० प्रतिगतेयं टीका "भीरू पकिच्चेव चलाऽवला य" इति पाठानुसारिणी वर्तते । “भीरु० वृत्तम्-पुरुषं प्राप्य सा अबला, अत एव तस्याः पर्यायनाम अबलेति । प्रायेण च स्त्री चपलखभावा । एगागिणी णिग्गंधी आसंकिता भवति-अवश्यमेषा व्यभिचारिणीति ॥” इति चूर्णी विशेषचूर्णौ च ॥
१°मां चतुः-पश्चप्रमृ भा० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org