________________
८९९
भाष्यगाथाः ३२०८-१७] प्रथम उद्देशः ।
एए चेव य दोसा, सविसेसुच्चारमायरंतस्स ।
सबितिजगणिक्खमणे, परिहरिया ते भवे दोसा ॥ ३२१२ ॥ 'एत एव' स्तेना-ऽऽरक्षिकादयो दोषाः सप्रायश्चित्ताः 'सविशेषाः' समधिका रजन्यामेकाकिनमुच्चारमाचरतो मन्तव्याः। यदा तु विचारभूमो गच्छन् सद्वितीयः प्रतिश्रयाद् निष्क्रमणं करोति तदा 'ते' स्तेनादयो दोषाः परिहृता भवेयुः ॥ ३२१२ ॥ कथम् ? इत्याह
जति दोण्णि तो णिवेदित्तु ऐति तेणभऍ ठाति दारेको ।
सावयभयम्मि एक्को, णिसिरति तं रक्खती बितिओ ॥ ३२१३ ॥ यदि द्वौ संयतौ कायिकीभूमौ निर्गच्छतः तदा यस्तत्र जागर्ति तस्य निवेद्य द्वावपि निर्गच्छतः । तेनभये तु तयोयोर्मध्यादेको द्वारे तिष्ठति द्वितीयः कायिकी व्युत्सृजति । अथ श्वापदभयं तत एकस्तत्र कायिकी निसृजति, द्वितीयो दण्डकहस्तः 'तं' कायिकी व्युत्सृजन्तमा-10 त्मानं च रक्षति ॥ ३२१३ ॥ अथैकाकिनो यतना प्रतिपाद्यते
सभयाऽसति मत्तस्स उ, एक्को उवओग डंडओ हत्थे ।
वति-कुटुंतेण कडी, कुणति य दारे वि उवयोगं ॥ ३२१४ ॥ यदि सभयं द्वितीयस्य च संयतस्य तत्राभावस्ततो मात्रके व्युत्सर्जनीयम् । अथ मात्रकं न विद्यते तत उपयोगं कृत्वा दण्डकं हस्ते गृहीत्वा वृतेर्वा कुड्यस्य वा अन्तेन-पार्श्वन कटीं कृत्वा 13 कायिकी व्युत्सृजति । द्वारेऽपि च स्तेनादिप्रवेशविषयमुपयोगं करोति ॥ ३२१४ ॥ १ इदमेव सविशेषमाह
वितियपदे उ गिलाणस्स कारणा अहव होज एगागी ।
पुव्व द्विय निदोसे, जतणाएँ णिवेदिउच्चारे ॥ ३२१५ ॥ द्वितीयपदेन तु ग्लानस्य कारणादेकोऽपि निर्गच्छेत् , अथवा स साधुरशिवादिभिः कारणै- 20 रेकाकी भवेत् , यद्वा तत्र पूर्व निर्दोष-निर्भयमिति मत्वा स्थिताः पश्चात् सभयं सञ्जातं तत्रापि यतनया निवेद्य तथैवोच्चारभूमौ प्रश्रवणभूमौ वा गच्छन्ति ॥ ३२१५॥ अथ "ग्लानस्य कारणात्" इति पदं व्याख्यानयति__ एगो गिलाणपासे, वितिओ आपुच्छिऊण तं नीति ।
चिरगते गिलाणमितरो, जग्गंतं पुच्छिउं णीति ॥ ३२१६॥ 25 इह ते त्रयो जनाः, तेषां च मध्ये एको ग्लानो विद्यते, एकश्च तस्य ग्लानस्य पार्श्वे तिष्ठति, द्वितीयस्तमापृच्छय कायिक्यादिभूमौ निर्गच्छति । स च यदि चिरगतो भवति ततः 'इतरः' ग्लानपावस्थितो ग्लानं जाग्रतमापृच्छय निर्गच्छति ॥ ३२१६ ॥ ऐवं स्तेनादीनां सम्भवे विधिरुक्तः । अथ तदसम्भवे विधिमाह-» जहितं पुण ते दोसा, तेणादीया ण होज पुव्वुत्ता।
30 एक्को वि णिवेदेवें, णितो वि तहिं णऽतिकमति ॥ ३२१७ ॥ यत्र पुनः 'ते' पूर्वोक्ताः स्तेनादयो दोषा न भवन्ति तत्रैकोऽपि शेषसाधूनां जाग्रतां निवेद्य १-२ एतन्मध्यगतमवतरणं कां० एव वर्त्तते ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org