________________
सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ सेखडिप्रकृते सूत्रम् ४७ पाया । सा च जीवितभेदाय चरणभेदाय वा भवेदिति' द्वारगाथासमासार्थः ॥ ३१८४ ॥ ... अथैनामेव प्रतिपदं विवृणोति
आचंडाला पढमा, वितिया पासंडजाति-णामेहिं ।
सक्खेते जा सकोसं, अक्खित्ते पुढविमाईसु ॥ ३१८५ ॥ 5 'प्रथमा' यावन्तिकी सा 'आचण्डाला' यावन्तः केचन तटिका-कार्पटिकादयो भिक्षाचरा यावदपश्चिमश्चाण्डालस्तावतां दातव्यमिति लक्षणा । 'द्वितीया' प्रगणिता प्रकर्षेण पाषण्डिनो जात्या नान्ना वा गणयित्वा यत्र दीयते । तत्र जातिं प्रतीत्य गणना यथा-दश भौता दश
भागवता दश श्वेताम्बरा इत्यादि । नाम प्रतीत्य गणना यथा—अमुकः श्वेतपटोऽमुकश्च रक्त__पट इत्यादि । खक्षेत्रसङ्खडी नाम या सक्रोशयोजनक्षेत्राभ्यन्तरे भवति । अक्षेत्रसङ्खडी तु या 10 सचित्तपृथिवी-वनस्पतिकायादिष्वनन्तरं परम्परं वा प्रतिष्ठिता ॥ ३१८५ ॥ एतासु गच्छतः प्रायश्चित्तमाह
जावंतिगाएँ लहुगा, चउगुरु पगणीऍ लहुग सक्खेत्ते ।
मीसग-सचित्त-ऽणंतर-परंपरे कायपच्छित्तं ॥३१८६ ॥ यावन्तिकायां चतुर्लघवः । प्रगणितायां चतुर्गुरवः । खक्षेत्रसङ्खड्यां गच्छतश्चतुर्लघु । अक्षे15 सङ्खड्यां मिश्र-सचित्ता-ऽनन्तर-परम्परप्रतिष्ठितायां कायप्रायश्चित्तम् । तत्र पृथिव्यादिषु प्रत्येक
वनस्पतिपर्यन्तेषु मिश्रेषु परम्परप्रतिष्ठितायां लघुपञ्चकम् , अनन्तरप्रतिष्ठितायां मासलघु; एतेष्वेव सचित्तेषु परम्परप्रतिष्ठितायां मासलघु, अनन्तरप्रतिष्ठितायां चतुर्लघु; अनन्तवनस्पतिष्वेतान्येव प्रायश्चित्तानि गुरुकाणि कर्त्तव्यानि ॥ ३१८६ ॥
र अथ सक्रोशयोजनबहिर्वर्तिनीप्रभृतिषु सङ्खडीषु प्रायश्चित्तमाह-~ 20 बहि बुड्ढि अद्धजोयण, गुरुगादी सत्तहिं भवे सपदं ।
चरगादी आइण्णा, चउगुरु हत्थाइभंगो य ॥ ३१८७ ॥ क्षेत्राद् बहिः सङ्खड्यां गच्छतश्चतुर्लघु, ततः परमर्द्धयोजनवृद्ध्या चतुर्गुरुकमादौ कृत्वा सप्तभिवृद्धिभिः 'स्वपदं' पाराञ्चिकं भवेत् । तद्यथा-क्षेत्राद् बहिरर्द्धयोजने चतुर्गुरु, योजने षड्लघु, सार्द्धयोजने षड्गुरु, द्वयोर्योजनयोश्छेदः, अर्द्धतृतीययोजनेषु मूलम् , त्रिषु योजनेषु नवमम्', 25 अर्द्धचतुर्थयोजनेषु पाराञ्चिकम् । तथा या चरक-परिव्राजक कार्पटिकादिभिराकुला सा आकीर्णा तां गच्छतश्चतुर्गुरुकम् । तत्र चातिसम्मन हस्त-पाद-पात्रादिभङ्गो भवेत् ॥ ३१८७ ॥ अथाविशुद्धपथगमनादीनि द्वाराणि व्याख्याति
काएहऽविसुद्धपहा, सावय-तेणा पहे अवाया उ । दंसण-बंभवता-ऽऽता, तिविधा पुण होंति पत्तस्स ॥ ३१८८ ॥ दंसणवादे लहुगा, सेसावादेसु चउगुरू होति ।
जीविय-चरित्तभेदा, विस-चरिगादीहि गुरुका उ ॥ ३१८९ ॥ १°या। तथा "मेदाय" त्ति जीवि कां० ॥ २ ति नियुक्तिगा कां० ॥ ३ एतचिहगतमवतरणं मो. ले. को. एव वर्तते ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org