________________
भाष्यगाथाः ३१७७-८४] प्रथम उद्देशः ।
नास्ति तत्र सङ्खड्यां गमने प्रवर्तनादोषः, 'परिपाट्यापतितं' प्राप्तावसरं यतस्तत्र भक्त-पानं गृह्णाति, न तदेवैकं गृहमुद्दिश्य गत्वेति । "मो” इति पादपूरणे । न च सा सङ्खडी 'आकीर्णा' जनाकुला, 'परसंसृष्टं च' गृहस्थादिपरिवेषणनिमित्तं हस्तो वा मात्रकं वा संसृष्टम् , अविलम्बितं च तत्रानिषण्णाः सन्तो गृह्णन्ति, भिक्षावेलायां गमनात् तत्क्षणादेव भक्त-पानं लभन्ते, न पुनरुपविष्टाः प्रतीक्षन्ते इति भावः ॥ ३१८० ॥ किञ्च
संतऽन्ने वऽवराधा, कजम्मि जतो ण दोसवं जेसु ।
जो पुण जतणारहितो, गुणो वि दोसायते तस्स ॥ ३१८१॥ 'सन्ति' विद्यन्ते 'अन्येऽपि' अनेषणीयग्रहणादयोऽपराधा येषु 'कार्ये' ज्ञानादौ 'यतः' प्रयत्न कुर्वन् प्रतिसेवमानोऽपि न दोषवान् भवति, यः पुनर्यतनारहितः प्रवर्तते तस्य गुणोऽपि 'दोषायते' दोष इव मन्तव्य । इत्यर्थः ॥ ३१८१ ॥ इदमेव सविशेषमाह-~
10 असढस्सऽप्पडिकारे, अत्थे जततो ण कोइ अवराधो ।
सप्पडिकारे अजतो, दप्पेण व दोसु वी दोसो ॥ ३१८२ ॥ 'अशठस्य' राग-द्वेषरहितस्य 'अप्रतिकारे' प्रतिसेवनां विना नास्त्यन्यो यस्य प्रतिकार इत्ये. वलक्षणे 'अर्थे सङ्खडिगमनादौ यतमानस्य' यतनां कुर्वतो न कोऽप्यपराधो भवति । यस्तु 'सप्रतिकारे' परिहत्तुं शक्येऽर्थे 'अयतः' न यतनां करोति दर्पण वा प्रतिसेवते तस्य 'द्वयोरपि' 15 अयतना-दर्पयोदोषो भवति, कर्मबन्ध इत्यर्थः ॥ ३१८२ ॥ यत एवमतः
निदोसा आदिण्णा, दोसवती संखडी अणाइण्णा ।
सुत्तमणाइण्णाते, तस्स विहाणा इमे होंति ॥ ३१८३ ॥ 'निर्दोषा' वक्ष्यमाणदोषरहिता सङ्खडी 'आचीर्णा' साधूनां गन्तुं कल्पनीया । या तु दोषवती सा अनाचीर्णा । तत्र सूत्रमनाचीर्णायामवतरति, न तत्र सङ्खडिप्रतिज्ञया रात्रौ वा विकाले वा 20 गन्तव्यम् । 'तस्याश्च' अनाचीर्णाया अमूनि 'विधानानि' भेदा भवन्ति ॥३१८३॥ तानेवाह
जावंतिया पगणिया, सक्खित्ताऽखित्त बाहिराऽऽइण्णा ।
अविसुद्धपंथगमणा, सपञ्चवाता य भेदाय ॥ ३१८४ ॥ __ 'यावन्तो भिक्षाचरा आगमिप्यन्ति तावतां दातव्यम्' इत्यभिप्रायेण यस्यां दीयते सा यावन्तिका । 'दश शाक्या दश परिव्राजका दश श्वेतपटाः' एवमादिगणनया यत्र दीयते सा प्रग-25 णिता । "सक्खेत्ते"ति सक्रोशयोजनक्षेत्राभ्यन्तरवर्तिनी । “अक्खेत्ते"ति सचित्तपृथिव्यादावक्षेत्रे-अस्थण्डिले स्थिता । "बाहिर' ति सक्रोशयोजनक्षेत्रबहिर्वर्तिनी । 'आकीर्णा नाम' चरक-परिव्राजकादिभिराकुला । अविशुद्धेन-पृथिव्यप्कायादिसंसक्तेन पथा गमनं यस्यां साऽविशुद्धपथगमना । तथा यत्र स्तेन-श्वापदादयो दर्शनादिविषयाश्च प्रत्यपाया भवन्ति सा सप्रत्य
१ नादौ पुष्टालम्बने 'यतः' का० ॥ २ND एतदन्तर्गतः पाठः का० एवं वर्तते ॥ ३°स्स अपडि ता० ॥ ४ 'ता, प्रकर्षण-वक्ष्यमाणलक्षणजाति-नामविशेषनिर्धारणेन पापण्डिनां गणनं-गणना यस्यां सा प्रगणितेति व्युत्पत्तेः । “सक्खे कां ॥५°दादिकता दर्शन-ब्रह्मव्रतादिविराधनालक्षणाश्च प्रत्य° का० ॥ ६°नापायादयश्च प्रत्य° भा०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org