SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथाः ३१.२८-३५ ]. प्रथम उद्देशः । ८७९ 1 कृताभ्यासः सहस्रयोधी वा स करणं करोति, तं राजानं बद्धा शास्तीत्यर्थः । विद्याबलेन वा वैक्रियलब्धिसम्पन्नो वा विष्णुकुमारादिरिव तस्य शिक्षां करोति । “असइ " त्ति यदा कृतकर - णादयो न प्राप्यन्ते तदाऽध्वानं गच्छद्भिः 'नन्दि:' प्रमोदो येन द्रव्येण गृहीतेन स्यात् तद् द्विविधमपि ग्रहीतव्यम् । तद्यथा - प्राशुकमप्राशुकं वा, परीत्तमनन्तं वा, परिवासितमपरिवासितं वा, एषणीयमनेषणीयं वेति ॥ ३१३१ ॥ गतं भक्त - पानप्रतिषेधद्वारम् । अथोपकरणहरद्वारं व्याख्यानयति ase व होति जतणा, वत्थे पादे अलब्भमाणम्मि । उच्छुद्ध विप्पइण्णे, एसणमादीसु जतितव्यं ।। ३१३२ ॥ 'तृतीयं राजद्विष्टं नाम' यत्र राज्ञा प्रतिषिद्धम् - 'माऽमीषां वस्त्रं पात्रं वा कोऽपि दद्याद् अपहर्त्तव्यं वा; तत्र वस्त्रे वा पात्रे वा अलभ्यमाने यतना कर्त्तव्या । कथम् ? इत्याह - देवकु - 10 लादिषु कार्पटिकैर्यद् वस्त्रादिकम् 'उच्छुद्धं' परित्यक्तं यच्च 'विप्रकीर्णम्' उत्कुरुटिकादिस्थापितं तद् गृह्णन्ति । एषणादिदोषेषु वा यतितव्यम्, वस्त्रग्रहणे पञ्चकपरिहाण्या यतना कर्त्त - व्येति ॥ ३१३२ ॥ 5 हियसेस गाण असती, तण अगणी सिक्कगा व वागा वा । पेहुण-चम्मग्गहणं, भत्तं तु पलास पाणिसु वा ।। ३१३३ ॥ राज्ञा साधूनामुपकरणानि हृतानि, ततः तच्छेषाणां तदुद्धरितानामभावः संवृत्तः किञ्चिदप्यव शिष्यमाणं नास्तीति भावः । ततः शीताभिभूताः सन्तस्तृणानि गृह्णन्ति अग्निं वा सेवते । पात्रकबन्धाभावे - सिक्केकानि, प्रावरणाभावे तु शणादिवल्कानि गृह्णन्ति । "पेहुणं" ति मयूराङ्गमयी पिच्छिका रजोहरणस्थाने कर्त्तव्या । चर्मणो वा प्रस्तरण- प्रावरणार्थं ग्रहणं कार्यम् । भक्तं तु पलाशपत्रादिषु, तेषामभावे पाणिष्वपि गृह्णीयाद्वा भुञ्जीत वा ॥ ३१३३ ॥ असई य लिंगकरणं, पण्णवणड्डा सयं व गहणट्ठा । आगाढें कारणम्मि, जहेव हंसादिणं गहणं ।। ३१३४ ॥ 20 एतदन्तर्गतः पाठः कां० एव वर्त्तते ॥ १ वाऽमीषां वस्त्र पात्रादिकमितिः तत्र कां० ॥ २ ३ मसत्ता संवृत्ता, कि° कां० ॥ ४° । तथा सिक्ककानि वा चल्कानि वा गृह्णीयुः । तत्र पात्रक कां० ॥ ५एतदन्तर्गतः पाठः ता० भा० कां० एव वर्त्तते ॥ For Private & Personal Use Only यदि राजा स्वलिङ्गेनोपशाम्यमानोऽपि नोपशाम्यति, उपकरणं वा खलिङ्गेन मृभ्यमाणं न लभ्यते, ततः परलिङ्गं कुर्वन्ति । किमर्थम् ? इत्याह- प्रज्ञापनार्थं स्वयं वा ग्रहणार्थम् । किमुक्तं भवति ? – बौद्धादिना राज्ञोऽनुमतेन परलिङ्गेन स्थिताः स्वसमय-परसमयवेदिनो वृषभा 25 युक्तियुक्तैर्वचोभिस्तं राजानं प्रज्ञापयन्ति, तेन वा परलिङ्गेन स्थिता उपकरणं स्वयमेवोत्पादयन्ति । ईशे आगाढे कारणे यथैव हंसतैलादीनां ग्रहणं तथा वस्त्र -पात्रादेरप्यवखापन- तालोद्घाटनादिप्रयोगैः कर्त्तव्यमिति ॥ ३१३४ ॥ गतमुपकरणहरंद्वारम् । अथ जीवित चारित्रभेदद्वारं भावयतिदुविहम्म भेरवमि, विज णिमित् य चुण्ण देवी य । सेट्ठिम्मि अचम्मिय, एसणमादीसु जतितव्यं ॥ ३१३५ ।। Jain Education International 15 30 www.jainelibrary.org
SR No.002512
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 03
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages364
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy