________________
10
भाष्यगाथाः ३१२०-२७] प्रथम उद्देशः ।
तत्थुग्गमादिसुद्धं, असंथरे वा पणगहाणी ॥ ३१२४ ॥ यत्र राज्ञा स्वच्छन्देन गमनमनुज्ञातं तत्र स्वयं वा सार्थेन वा सहिता गच्छन्तः 'पूर्वोक्तम्' इहैवाशिवद्वारे ( गा० ३१०५-१०) ओपनियुक्तौ वा भर्णितं भैक्ष-षट्काययतनादिकं. कर्तव्यम् । नवरं तत्र खच्छन्दगमने उद्गमादिशुद्धं भक्तपानं ग्राह्यम् । असंस्तरणे पञ्चकपरिहाण्या गृह्णन्ति । अथ राजा 'मा अत्रैव जनपदे कचित् प्रदेशे निलीय स्थास्यन्ति' इति बुद्ध्या पुरुषान् सहायान् प्रयच्छति, ततस्ते पुरुषा भणन्ति-यूयं ग्रामं प्रविश्य तत्र भिक्षामटित्वा भुक्त्वा च प्रत्यागच्छत, वयमिहैव ग्रामद्वारे स्थिताः प्रतीक्षामहे; ततस्ते तत्र स्थिता यो यथा साधुः समागच्छति तं तथा निरुन्धते यावता सर्वेऽपि मिलिताः । अथवा ते राजपुरुषाः सभायां देवकुले वा स्थिता ब्रुवते-यूयं भिक्षामटित्वा गृहीत्वा चेह समागच्छत, अस्माकं समीपे समुद्दिशतेति ॥ ३१२४ ॥ ततश्च
तिण्हेगयरे गमणे, एसणमादीसु होति जतियव्वं ।
भत्तट्ठण थंडिल्ले, असती वसहीऍ जं जत्थ ॥३१२५॥ त्रैयाणां प्रकाराणामेकतरस्मिन् गमने एषणायाम् आदिशब्दादुद्गमोत्पादनयोश्च यतितव्यम् । भक्तार्थनं तु द्वयोराद्यगमनयोर्मण्डल्यादिविधिनैव कुर्वन्ति, तृतीये तु गमने राजपुरुषसमीपे भुञ्जानानां न मण्डल्यादिनियमः । स्थण्डिलसामाचारी तु त्रिष्वपि न हापयन्ति, राजपुरुषसमी-15 पस्थिता वा कुरुकुचां कुर्वन्ति । यदि ते ब्रवीरन्- 'अस्मत्समीपे वस्तव्यम्' ततो वसतावसत्यां यद् यत्राल्पदोषतरं कार्य तत् तत्र कर्त्तव्यम् ॥ ३१२५ ॥ अथ प्रकारत्रयमेव व्यक्तीकुर्वन्नाह
सच्छंदओ य एकं, वितियं अण्णत्थ भोत्तिहं एह ।।
ततिए भिक्खं घेत्तुं, इह भुंजह तीसु वी जतणा ॥ ३१२६ ॥ एकं स्वच्छन्दतो गमनम् , द्वितीयं पुनरन्यत्र भुक्तवेह समागच्छत, तृतीयं भिक्षां गृहीत्वा 20 इह समागत्य भोजनं कुरुत, एषु त्रिष्वपि भैक्षादियतना कर्त्तव्या ॥ ३१२६ ॥ 1 अत्रैव विशेषं दर्शयति-~
सबिइजए व मुंचति, आणावेत्तुं व चोल्लए देति ।
अम्हुग्गमाइसुद्धं, अणुसहि अणिच्छे जं अंतं ॥ ३१२७ ॥ वाशब्दाः प्रकारान्तरोपन्यासे । कश्चिदतिप्रान्तः सद्वितीयान् साधून मुञ्चति । किमुक्तं 25 भवति ?–साधूनां भिक्षामटतां राजपुरुषानं पृष्ठतः स्थितान् हिण्डापयति, ते च यद्युत्सुकायमाना अनेषणीयं ग्राहयन्ति; यदि वा स राजपुरुष एकत्र स्थाने साधून निरुध्य 'चोल्लक' भोजनमानाय्य ददाति, यथा-सर्वेऽप्येतदाहारयत; ततोऽसौ वक्तव्यः-अस्माकमुद्गमादि
१°तं भैक्षविषयमध्वकल्पग्रहणादिकं षट्काययतनादिकं वा सर्वमपि विधिं कुर्वन्ति । नवरं कां० ॥ २ °म् । अथ शुद्धं न लभ्यते ततः 'वा' इति अथवा असं का० ॥
३ अनन्तरोक्तादीनां स्वच्छन्दगमनादीनां त्रयाणां मो० ले० कां० ॥ ४ 'यतितव्यं' पञ्चकपरिहाण्या यतना कर्त्तव्या भवति । भक्ता' का ॥ ५ एतदन्तर्गतमवतरणं का० एव वर्तते ॥ ६ °न द्वितीयान् पृष्ठ° भा० का ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org