SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ सनियुक्ति-लघुभाष्य-धृत्तिके वृहत्कल्पसूत्रे [अध्वप्रकृते सूत्रम् ४६ प्रज्ञाप्योपकरणं ग्रहीतव्यमिति भावः । अथ प्रमादाद्युपहतो न मार्गयति न वा धौत-रक्तादिकमसंयतप्रायोग्यमिति कृत्वा गृह्णाति ततश्चतुर्लघवः ॥ ३०३६ ॥ वसिमे वि विवित्ताणं, एमेव य वीसुकरणमादीया । वोसिरणे चउलहुगा, जं अहिगरणं च हाणी जा ॥ ३०३७ ।। 5 न केवलमध्वनि विविक्तानां किन्तु 'वसिमेऽपि' जनपदे विविक्तानामुपकरणविष्वक्करणादीनि कार्याण्येवमेव मन्तव्यानि । यस्तु खोपकरणं व्युत्सृजति, 'को नामात्मानमायासयिष्यति ? इति कृत्वा न गवेषयतीति भावः, तस्य चत्वारो लघवः । यच्च 'अधिकरणम्' अप्कायप्रक्षालनादिकं या च तेनोपकरणेन विना सूत्रार्थयोः संयमयोगानां वा परिहाणिस्तन्निष्पन्नमपि प्रायश्चित्तम् । यत एवमतः सर्वप्रयत्नेन गवेषणीयम् ॥ ३०३७ ॥ ॥ हरियाहडियाप्रकृतं समाप्तम् ॥ अ ध्व ग म न प्र कृ त म् सूत्रम् नो कप्पइ निग्गंथाण वा निग्गंथीण वा राओ वा वियाले वा अद्धाणगमणं एत्तए ४६ ॥ 15 अथास्य सूत्रस्य कः सम्बन्धः ? इत्याह हरियाहडियट्ठाए, होज विहेमाइयं न वारेमो । जं पुण रत्तिं गमणं, तदट्ट अबह वा सुत्तं ॥ ३०३८ ॥ विहे-अध्वनि गच्छतां हृताहृतिकार्थम् 'एवमादिकं' पल्लीगमनप्रभृतिकं भवेद् न वयं तद् वारयामः । यत् पुना रात्रावध्वनि गमनं 'तदर्थ' हृताहृतिकानिमित्तम् अथवा 'अन्यार्थम्' 20 अन्येषां-ज्ञानादिकारणानामर्थाय तत्र सूत्रमवतरति, तद् न कल्पत इति भावः ॥ ३०३८ ॥ अहवा तत्थ अवाया, वच्चंते होज रत्तिचारिस्स । जइ ता विहं पि रत्ति, वारेतविहं किमंग पुणो ॥३०३९ ।। अथवा 'तंत्र' अध्वनि व्रजतां यो रात्रिचारी-रात्रौ गमनशीलस्तस्य संयमा-ऽऽत्म-प्रवचनविषया बहवः प्रत्यपाया भवेयुरिति रात्रौ गमनं वार्यते । यदि च 'विहमपि' अध्वानमपि रात्री 30 गन्तुं वारयति ततः किमङ्ग पुनः 'अविहम्' अनध्वानम् ? जनपदे सुतरां रात्रौ गन्तुं वारयति इति भावः ॥ ३०३९ ॥ अनेन सम्बन्धेनायातस्यास्य व्याख्या-नो कल्पते निर्ग्रन्थानां वा निर्ग्रन्थीनां वा रात्री वा विकाले वाऽध्वगमनं 'एतुं' गन्तुमिति सूत्रार्थः ॥ अथ भाष्यविस्तरः १°य, तनिषेधार्थ प्रस्तुतसूत्रमारभ्यत इति ॥ ३०३८ ॥ अमुमेव सम्बन्धं प्रकारान्तरेजाह-अहवा० गाथा का ॥ २ 'तत्र' हताहतिकासूत्रोक्ते अध्व का० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002512
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 03
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages364
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy