SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ ८५५ भाप्यगाथाः ३०२९-३६] प्रथम उद्देशः । अन्नस्स व पल्लीए, जयणा गमणं तु गहण तह चेव । गामाणुगामियम्मि य, गहिए गहणे य जं भणियं ॥ ३०३३ ॥ अथान्यस्य सेनापतेः पल्या हृतोपकरणस्याई नीतं भवेत् ततस्तत्रापि यतनया गमनं ग्रहणं च तथैव' अनुशिष्टि-धर्मकथादिना विधेयम् । एवमध्वनि विविक्तानां विधिरुक्तः । १ अथानध्वनि तमेवातिदिशति-'गामाणुगामि' इत्यादि, » प्रामानुग्रामिकेऽपि विहारे मासकल्प-5 विधिं कुर्वन्तो यदा विविक्ता भवन्ति तदा 'गृहीते' स्वहस्तचटिते "गहणे" ति गृह्यमाणे चोपकरणे उपधिपृथक्करणादिकं धर्मकथादिकं च यत् पूर्व भणितं तदेवात्रापि द्रष्टव्यम् ॥ ३०३३ ॥ इंदमेव व्याचिख्यासुराह तत्थेव आणवावेइ तं तु पेसेइ वा जहिं भद्दो । सत्थेण कप्पियारं, व देइ जो णं तहिं नेइ ॥ ३०३४ ॥ यधुपकरणमन्यस्यां पल्ल्यां नीतं तदा यदि मूलपल्लीपतिर्भद्रकस्तत उपकरणं तत्रैव' आत्मनो मूले तत्पल्लीवास्तव्यमानुषैरानाययति । अथवा 'तम्' इत्यात्मीयमनुष्यं तत्र प्रेषयति यत्रासावन्यस्य सेनापतेः पल्यामुपधिर्वर्तते । अथासौ न समर्थः खसमीपे आनाययितुं ततः सार्थेन सह तस्यां पल्ल्यां गन्तव्यम् । अथ सार्थो न प्राप्यते ततो मूलपल्लीपतिर्मानुषं मार्गयितव्यः । स च 'कल्पितारं' मार्गदर्शयितारं खमनुष्यं ददाति यः 'तत्र' पल्ल्यां "ण"मिति तान् साधून 15 नयति ॥ ३०३४ ॥ अणुसट्ठाई तत्थ वि, काउ सपल्लि इतरीसु वा घेत्तुं । सत्थेणेव जणवयं, उविति अह भदए जयणा ॥ ३०३५ ॥ _ 'तत्रापि' पल्ल्यामनुशिष्टि-धर्मकथादिप्रयोगं कृत्वा गृहीत्वा च स्वकीयमुपकरणजातम् , यदि ततः सार्थो न लभ्यते ततस्तेनैव मनुष्येण सह खपल्यामागच्छन्ति, मूलपल्ल्यामित्यर्थः । तत्र 20 चागत्य सार्थेन सह जनपदमुपयान्ति । अथ तस्याः पल्ल्याः सकाशादितरासां जनपदप्रत्यन्तपल्लीनां सार्थों लभ्यते तासु चोपकरणं नीतं भवेत् ततस्तदर्थे तत्र गत्वा तच्च गृहीत्वा तत एव सार्थेन सार्द्ध जनपदमुपयान्ति । 'अथ' एषा भद्रकेऽन्यपल्लीपतौ यतना भणिता ॥ ३०३५॥ ___ अथ प्रान्तविषयां तामेवाह फड्डगपइए पंते, भणंति सेणावई तहिं पंते । उत्तरउत्तर माडंबियाइ जा पच्छिमो राया ॥ ३०३६॥ इह मूलपल्ली मुक्त्वा या अन्याः पल्ल्यस्तासामधिपतयो मूलपल्लीपतिवशवर्तिनः स्पर्द्धकपतय उच्यन्ते । तेषामेकतरेण साधवो विविक्ताः, स च प्रकृत्यैव प्रान्तः, ततस्तस्मिन् प्रान्ते बहुशोऽपि मार्गिते उपकरणमप्रयच्छति मूलसेनापतिं 'भणन्ति' धर्मकथादिना प्रज्ञापयन्ति, स च प्रज्ञापितः सन् दापयति । अथ सोऽपि प्रान्तः ततो यः कोऽपि माडम्बिकः-छिन्नमडम्बाधि-30 पतिः स प्रज्ञाप्यते । तत उत्तरोत्तरं तावन्नेतव्यं यावद् 'अपश्चिमः' सर्वान्तिमो राजा, तमपि १२ एतन्मध्यगतः पाठः भा० त० डे० नास्ति ॥ २ एनामेव नियुक्तिगाथां व्याचि का० ॥ ३ एतन्मध्यवर्त्यवतरणं भा० त० डे. नास्ति ।। 25 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002512
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 03
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages364
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy