________________
८५४ सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ हरियाहडियाप्र० सूत्रम् ४५ लघुकाः, अनवस्था चैवं भवति, भूयोऽपि हृत्वा ते वा अन्ये वा एवमेव पृथिव्यादिषु निक्षिपन्तीति भावः ॥ ३०२८ ॥ अथ “सा वि य परिभुत्ता वा" इत्यादि सूत्रावयवं विवृणोति
हरियाहडिया सुविहिय!, पंचवन्ना वि कप्पई घेत्तुं ।
परिभुत्तमपरिभुत्ता, अप्पाबहुगं वियाणित्ता ॥ ३०२९ ॥ 5 हे सुविहित ! हताहृतिका यद्यपि तैः स्तेनकैः पञ्चवर्णा कृता तथापि ग्रहीतुं कल्पते । तथा परिभुक्ता अपरिभुक्ता वा, उपलक्षणत्वाद धौता घृष्टा मृष्टा सम्प्रधूमिता वा भवतु परं तथाप्यल्पबहुत्वं विज्ञाय खीकर्त्तव्यैव, न परिहर्त्तव्या ॥ ३०२९॥ अत्रैव विशेषमाह-~
आधत्ते विक्कीए, परिभुत्ते तस्स चेव गहणं तु ।।
अन्नस्स गिण्हणं तस्स चेव जयणाएँ हिंडंति ॥ ३०३० ॥ 10 स्तेनकैस्तद् वस्त्रं 'आधत्तं' ग्रहणके मुक्तं भवेद् विक्रीतं वा परिभुक्तं वा ततस्ते ब्रूयुःवयमन्यद् वस्त्रं प्रयच्छाम इति । ततो वक्तव्यम्-तदेवास्माकं प्रयच्छत नान्येन केनापि प्रयोजनमिति भणित्वा तदेव ग्रहीतव्यम् । यदि न लभ्यते ततोऽनवस्थापसङ्गनिवारणार्थमन्य. स्यापि ग्रहणं कुर्वन्ति । तच्च यदि संस्तरति ततः परिष्ठापयितव्यम् , असंस्तरणे तु परिभोक्तव्यम् । तथा 'तस्यैव' सेनापतेर्मानुषैः सह वस्त्रान्वेषणाय यतनया 'हिण्डन्ते' पर्यटन्ति ॥३०३०॥ 15 इदमेव भावयति
___ अन्नं च देइ उवहिं, सो वि य नातो तहेव अन्नातो।।
सुद्धस्स होइ गहणं, असुद्धि घेत्तुं परिट्ठवणा ॥ ३०३१ ॥ अथासौ सेनापतिः ‘अन्यम्' अन्यसाधुसम्बन्धिनमुपधिं ददाति ततः 'सोऽपि च' उपधिः 'ज्ञातो वा स्यात्' संविना- संविमसम्बन्धितयोपलक्षितः 'अज्ञातो वा' तद्विपरीतः । तत्र यः 20 शुद्धः-विधिपरिकर्मितो यथोक्तप्रमाणोपेतश्च स संविमसम्बन्धी तं गृहीत्वा तेषामेव संविमाना
मर्पयन्ति । अथ ते देशान्तरं गतास्ततो यदि संस्तरति ततः परिष्ठापयन्ति । अथ न संस्तरति ततः परिभुञ्जते । यः पुनः 'अशुद्धः' एतद्विपरीतः सोऽसंविमानां सम्बन्धी तमप्यनवस्थाऽधिकरणपरिहरणार्थ गृहीत्वा पश्चात् परिष्ठापयन्ति ॥ ३०३१ ॥ इदमेव व्याचष्टे
तं सिव्वणीहि नाउं, पमाण हीणाहियं विरंगं वा।
इतरोवहिं पि गिण्हइ, मा अहिगरणं पसंगो वा ॥ ३०३२ ॥ __ 'तद्' उपकरणमविधिसीवनिकाभिः सीवितं प्रमाणतश्च हीनाधिकं तथा 'विरङ्ग' विचित्रवर्णकरक्तम् एवंविधं दृष्ट्वा ज्ञातव्यम्, यथा-एष इतरेषाम्-असंविमानामुपधिः, तमपि ज्ञात्वा गृहात्येव । कुतः ? इत्याह-मा तस्मिन्नगृह्यमाणेऽधिकरणमसंयतपरिभोगादिना 'प्रसङ्गो वा' भूयोऽप्युपकरणहरणलक्षणो भवत्विति कृत्वा ॥ ३०३२ ॥
१ एतदनन्तरं भा० प्रतौ सूत्रम् इत्यवतीर्य पञ्चचत्वारिंशत्सूत्रान्तर्गतः । एतचिहान्तर्वर्ती सूत्रांशः तवृत्तिश्चात्र वर्तेते। दृश्यतां पत्र ८४८ टिप्पणी १-३ । तदनन्तरम् अथ भाष्यम् इत्यवतीर्य "हरियाहडिया." इति ३०२९ गाथा व्याख्याताऽस्ति ॥ २॥ एतच्चिह्नगतमबतरणं कां० एव वर्तते ।। ३धी तस्य च ग्रहणं भवति, गृहीत्वा च तं तेषामेव कां०॥
25
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org