________________
भाप्यगाथाः ३०१९-२८ ]
प्रथम उद्देशः ।
८५३
'किं मुषिता यूयम् ?' इति पृच्छन्तं ब्रुवते - को नामास्मान् पृच्छति ? किंवा निर्ग्रन्थानामस्माकं मुषितव्र्व्यम् ? इति । ततश्च स्तेनपल्लीं गत्वा यस्तत्र सेनाया अधिपस्तं 'पूर्व' प्रथमतः 'भणन्ति' धर्मकथादिना प्रज्ञापयन्ति । प्रज्ञापितश्च यद्यावृत्तस्ततो वक्तव्यम् — अस्माकमुपि प्रयच्छेति । यदि प्रयच्छति ततः सुन्दरम् । अथ नेच्छति प्रदातुं ततो ये तस्य संज्ञातका:स्वजनाः आदिशब्दाद् मित्रादयश्च ते तथैव धर्मकथादिना प्रज्ञापयितव्याः । ततस्तद्वारेण स सेनापतिरुपशमयितव्यः || ३०२४ ॥
उवसंतो सेणावर, उवगरणं देइ वा दवावे |
गtत्थे यहणं, वसुं वसुं च से करणं ॥ ३०२५ ॥
उपशान्तः सन् सेनापतिः स्वयमेवोपकरणं ददाति, स्वमानुषैर्वा दापयति, ततो यदि ते सर्वेऽपि गीतार्थास्तत उपकरणं मिश्रयन्ति वा न वा । अथागीतार्थमिश्रास्ततो गीतार्थैस्तस्योपक- 10 रणस्य ग्रहणं कर्त्तव्यम् । यच्च संयत- संयतीनामुपकरणं तद् 'विष्वग् विष्वक्' पृथक् पृथग् विधेयम् ॥ ३०२५ ॥ अथ सेनापतिर्ब्रूयात्—
सत्थो बहू विवित्तो, गिण्हह जं जत्थ पेच्छह अडता । इह पडिपल्ली य, रूसेह बिइजओ हं भे || ३०२६ ॥
सार्थोऽस्मन्मानुषैः 'बहु:' प्रभूतो विविक्तः अतो न ज्ञायते कस्य कुत्र वस्त्रादिकमस्ति ? 15 इति, ततो गृह्णीत यूयं स्वकीयमुपकरणं यद् यत्र पर्यटन्तः पश्यथ । ततः साधुभिर्वक्तव्यम् - यद्येवं ततः खमानुषमस्माभिः सह विसर्जयत । ततस्तदीयमानुषेण सह गच्छन्ति । तच्च ब्रूते – 'इह' अस्यामेव पल्यां प्रतिपल्लीषु वा यद् यद् भवतामुपकरणं तत् तद् "रूसेह" त्ति देशीवचनत्वाद् गवेषयत, अहं भवतां द्वितीयोऽस्मीति । ततो यद् यत्र पश्यन्ति तत् तत्र सेनानुशिष्ट्यादिभिः प्रज्ञाप्य गृह्णन्ति || ३०२६ ॥
20
अहं ताव न जातो, जह एएसि पि पावइ न हत्थं ।
तह कुणिमो मोसमिणं, छुभंति पावा अह इमेसु ।। ३०२७ ॥ अस्माकं तावदयं 'मोषः' मुषितवस्त्रादिलक्षणो न जातः, अतो यथैतेषामपि हस्तं न प्राप्नोति तथा वयमेनं मोषं कुर्महे इति विचिन्त्य केचित् 'पापाः' स्तेनकाः 'अथ' इति चिन्तानन्तरमेतेषु प्रक्षिपन्ति ।। ३०२७ ॥ तद्यथा
25
पुढवी आउक्काए, अगड- वणस्स तसेसु साहरई । सुत्तत्थजाणएणं, अप्पाबहुयं तु नायव्वं ।। ३०२८ ॥
पृथिवीकाये वा अप्काये वा अगडे वा गर्त्तायामित्यर्थः वनस्पतिषु वा त्रसेषु वा 'संहरन्ति ' निक्षिपन्तीति यावत्, गाथायामेकवचननिर्देशः प्राकृतत्वात्, एतेषु निक्षिप्तममीषां ग्रहीतुं न कल्पत इति बुद्ध्या । अत्र च 'सूत्रार्थज्ञेन' गीतार्थेन 'पृथिव्यादिनिक्षिप्ते तत्रोपकरणे गृह्य - 30 माणे खल्पतरमेवाधिकरणम्, अगृह्यमाणे तु बहुतरमसंयतपरिभोगा-ऽप्कायप्रक्षालनादिकम् ' [ इति ] एवमपबहुत्वं ज्ञातव्यम्, ज्ञात्वा च ग्रहीतव्यं तद् वस्त्रम् । अथ न गृह्णाति ततश्चतु१ "व्यम् ? येन मुषिता यूयमिति प्रश्नस्यावकाशो भवेदिति । ततश्च भा० ॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org