________________
८५२
सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [हरियाडियाप्र० सूत्रम् ४५ 'काणः' चक्षुर्विकलः ईदृशो वाऽहं जातोऽस्मि, अतो मा मदीयान् शिष्यान् बाधध्वम्, यद् मारणादिकं कर्तुमिच्छथ तद् ममैव कुरुध्वम् ॥ ३०१८ ॥ यतः
इहरा वि मरिउमिच्छं, संतिं सिरसाण देह मं हणह ।
मयमारगत्तणमिणं, जं कीरइ मुंचह सुते मे ॥ ३०१९ ॥ 5 इतरथाऽपि तावदहं मर्तुमिच्छामि अतो मदीयशिष्याणां शान्ति प्रयच्छत, मां पुनः यथा
खरुचि 'हत' विनाशयत; यतो यदिदं मम मारणं भवद्भिः क्रियते तद् मृतस्यैव मारकत्वं भवति, अतो मुञ्चत मदीयान् ‘सुतान्' शिष्यान् ॥ ३०१९ ॥ अपि च
एयं पि ताव जाणह, रिसिवज्झा जह न सुंदरी होइ ।
इह य परत्थ य लोए, मुंचंतऽणुलोमिया एवं ॥ ३०२० ॥ 10 भो भद्राः ! एतदपि तावद् यूयं जानीथ, यथा--ऋषिहत्या विधीयमाना इह च परत्र
च लोके सुन्दरा न भवति । एवम् 'अनुलोमिताः' प्रज्ञापिताः सन्तस्ते तस्कराः साधून् मुञ्चन्ति ॥ ३०२० ॥ अथैवमपि न मुच्येरन् ततः किं कर्त्तव्यम् ? इत्याह
धम्मकहा चुण्णेहि व, मंत निमित्तेण वा वि विजाए ।
नित्थारेइ बलेण व, अप्पाणं चेव गच्छं च ॥ ३०२१ ॥ 15 यो धर्मकथालब्धिमान् स धर्मकथया तं सेनापतिमुपशमयति, चूर्णैर्वा मन्त्रेण वा निमित्तेन
वा विद्यया वा तमावर्त्तयेत् । यो वा धनुर्वेदादौ कृतपरिश्रमः स भुजबलेन तं सेनापतिं निर्जित्यात्मानं गच्छं च निस्तारयति ॥ ३०२१ ॥ अथैषामेकमपि न विद्यते. ततः
वीसजिया व तेणं, पंथं फिडिया व हिंडमाणा वा।
गंतूण तेणपल्लिं, धम्मकहाईहिँ पन्नवणा ॥ ३०२२॥ 20 'तेन' प्रान्तेन सेनापतिनोपधिमपहृत्य साधवः 'विसर्जिताः' मुक्ता इत्यर्थः, मुक्ताश्च यधु
पधिं न गवेषयन्ति ततश्चतुर्लघुकाः । ततः स्तेनपल्लीं गत्वा गवेषयितव्य उपधिः । गच्छतां चापान्तराले यदि कोऽपि प्रश्नयेत्-कुतो भवन्त इहागताः ? ततो वक्तव्यम्-‘पथः' मार्मात् परिभ्रष्टाः 'हिण्डमाना वा' विहारक्रमेण विहरन्त एव वयमिह सम्प्राप्ताः । ततश्च स्तेनपल्ली गत्वा धर्मकथादिभिः सेनापतेः प्रज्ञापना कर्त्तव्या ॥ ३०२२ ॥ अथेदमेव भावयति
__भद्दमभई अहिवं, नाउं भद्दे विसंति तं पल्लिं ।
फिडिया मुत्ति य पंथं, भणंति पुट्ठा कहिं पल्लिं ॥ ३०२३॥ स्तेनपल्ली गच्छद्भिः प्रथमत एवैतद् ज्ञातव्यम्-किमत्र सेनापतिर्भद्रकोऽभद्रको वा ? । यदि भद्रकस्ततस्तां पल्लीं प्रविशन्ति । अथाभद्रकस्ततः ‘मा प्रान्तापना-उपद्रावणादीनि कार्षीद्' इति
कृत्वा न तत्र गन्तव्यम् । अथ गच्छन्ति ततश्चत्वारो गुरवः । अथ कोऽप्युपशमनायोत्सहते 30 ततस्तं गृहीत्वा गन्तव्यम् । गच्छन्तश्च 'कुतः किमर्थं भवन्त इहायाताः ? कुत्र वा ब्रजिष्यथ ?' इति पृष्टा भणन्ति–पथः 'स्फिटिताः' परिभ्रष्टा वयमिह पल्ल्यामाहारान्वेषणं कुर्महे ॥३०२३॥
मुसिय त्ति पुच्छमाणं, को पुच्छइ किं व अम्ह मुसियव्यं । अहिवं भणति पुचि, अणिच्छे सन्नायगादीहिं ॥३०२४ ॥
.25
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org