SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ ८४८ सनिर्युक्ति-लघुभाष्य-वृत्तिके वृहत्कल्पसूत्रे [ हरियाहडियाप्र० सू० ४५ हरिया हडिया प्रकृतम् सूत्रम् - नऽन्नत्थ एगाए हरियाहडियाए । साविय परिभुत्ता वा धोया वा रत्ता वा घट्टा वा मट्ठा वा संपधूमिया वा ४५ ॥ अस्य सम्बन्धमाह --- सुत्तेणेव य जोगो, हरियाहडि कप्पए निसिं घेतुं । हरिऊण य आहडिया, छूढा हरिए वाऽऽहड्ड ।। ३००१ ॥ 'सूत्रेणैव' सूत्रस्य 'योगः' सम्बन्धोऽत्रास्ति । अनन्तरसूत्रे रात्रौ वस्त्रादिकं ग्रहीतुं न कल्पते 10 इत्युक्तम् । अत्र तु या हृताहृतिका सा 'निशि' रात्रौ ग्रहीतुं कल्पते इति प्रतिपाद्यते । अनेन सम्बन्धेनायातस्यास्य व्याख्या - "न कल्पते रात्रौ वस्त्रं ग्रहीतुम्" इति प्रतिषेधः अन्यत्रैकस्या हृताहृतिकाया हरिताहृतिकाया वा । तत्र पूर्वं हृतं पश्चादाहृतम् - आनीतं वस्त्रं हृताहतम्, तदेव हताहतिका, खार्थे कप्रत्ययः, "अतिवर्त्तन्ते खार्थिकप्रत्ययाः प्रकृति-लिङ्ग-वचनानि" इति वचनाद् अत्र रूढितः स्त्रीलिङ्गनिर्देशः । एवं हरितेषु - वनस्पतिष्वाहृतं हरिताहृतं वस्त्रम्, 15 तदेव हरिताहृतिका । 'साऽपि च ' हृताहृतिका 'परिभुक्ता' परिधानादौ व्यापारिता, 'धौता' अप्कायेन प्रक्षालिता, 'रक्ता' विचित्रवर्णकैरुपरञ्जिता, 'घृष्टा' घट्टकादिना घट्टिता, 'मृष्टा' सुकुमारीकृता, 'सम्प्रधूमिता' धूपद्रव्येण समन्ततः प्रकर्षेण धूपिता । वाशब्दाः सर्वेऽपि विकल्पार्थाः । एवंविधाऽपि सा खीकर्त्तव्या, न पुनरसाधुप्रायोग्या कृतेति कृत्वा परिहर्त्तव्येति सूत्रार्थः ॥ अथ भाष्यम् –“हरिऊण य" इत्यादि पश्चार्द्धम् । स्तेनैः पूर्वं हत्वा पश्चाद् यद् वस्त्रमा20 हृतम् - आनीतं तदेव हृताहृति केत्युच्यते । यद्वा हृत्वा हरितेषु प्रक्षिप्ता या सा हरिताहतिका ॥ ३००१ ॥ सा पुनः कथं भवति ? इत्याह- Jain Education International अद्धाणमणद्धाणे, व विवित्ताणं तु होज आहडिया | अविहे वसंति खेमे, विहं न गच्छे सइ गुणेसु ।। ३००२ ॥ अध्वनि अनध्वनि वा 'विविक्तानां' मुषितानां हृताहृतिका सम्भवति । तत्र 'अविहे' अन25 ध्वनि मासकल्पेन विहरन्तः 'क्षेमे' निरुपद्रवे ग्रामादौ वसन्ति । अतः 'सत्सु ' विद्यमानेषु ज्ञानादिगुणेषु 'विहम्' अध्वानं 'न गच्छेत्' नानुप्रविशेत् ॥ ३००२ ॥ तथा चाह १- ३ एतचिह्नमध्यवर्ती सूत्रांशः सवृत्तिकः भा० प्रतौ नात्र वर्त्तते, किन्तु "पुढवी आउक्काए० " इति ३०२८ गाथावृत्त्यनन्तरं सूत्रम् इत्यवतीर्य पृथक्सूत्रत्वेन सवृत्तिको वर्त्तते । दृश्यतां पत्र ८५४ टिप्पणी १। चूर्णो विशेषचूर्णो वृहद्भाष्ये तु अत्रैव समग्रं सूत्रं व्याख्यातं वर्त्तते ॥ २न्धः क्रियते । अन भा० ॥ ४ अत्रैव प्रायश्चित्तं द्वितीयपदं च दर्शयन्नाह इत्यवतरणं कां० ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.002512
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 03
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages364
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy