________________
भाष्यगाथाः २९९४-३०००] प्रथम उद्देशः ।
८४७ कृतयोगी नाम-यो गृहवासे कर्त्तनं वयनं वा कृतवान् । स गच्छस्य वस्त्राभावे एकको वा नालबद्धसंयतीसहितो वा विजने भूभागे कर्त्तनं वयनं च कृत्वा 'उभयपक्षस्य' संयत-संयतीलक्षणस्य प्रायोग्यमुपकरणं व निष्पादयति । ततः संयताः संयत्यश्च यथायोगमुपकरणं । परिभुञ्जते ॥ २९९७ ॥ ततः किम् ? इत्याह
अगीयत्थेसु विगिचे, जहलाभं सुलभउबहिखेत्तेसु ।
पच्छित्तं च वहंति, अलंमें तं चेव धारेति ॥ २९९८ ॥ यद्यगीतार्थमिश्रास्ततः सुलभोपधिक्षेत्रेषु गताः सन्तः 'यथालाभं' यद् यद् वस्त्रं लभन्ते तत्तत्सदृशमपरं व्यूतवस्त्रं 'विविचन्ति' परिष्ठापयन्तीत्यर्थः, अगीतार्थप्रत्ययनिमित्तं च यथालघु प्रायश्चितं वहन्ति । अथापरं न लभ्यते ततः 'तदेव' स्वयंव्यूतं वस्त्रं धारयन्ति । अथ सर्वेऽपि गीतार्थास्ततोऽपरस्य लाभे प्राक्तनं परित्यजन्ति वा न वा, न कोऽपि नियमः ॥२९९८॥ 10 __ अथ "अद्धाणनिग्गयाई" (गा० २९८९) इत्यत्र योऽयमादिशब्दस्तस्य फलमुपदर्शयन्नाह
एमेव य वसिमम्मि वि, झामिय ओम हिय बूढ परिजुन्ने ।
पुव्वुट्ठिए व सत्थे, समइच्छंता व ते वा वि ॥ २९९९ ॥ न केवलमध्वनि विविक्तानामेष विधिः, किन्तु ग्रामादौ वसिमेऽपि वसतां यत्रोपधिर-15 मिकायेन 'ध्यामितः' दग्धः, अवमौदर्ये वा विक्रीतः, चौरैर्वा हृतः, वर्षासु वा पानीयपूरेण व्यूढः, 'परिजीर्णो वा' पुराणतया दुर्बलीभूतो विवक्षितं कार्यं कर्तुमसमर्थः, तत्रापि 'एवमेव' आमन्तरोक्तो विधिर्मन्तव्यः । अत्र चापरो विशेष उपदर्यते-यत्र ग्रामे साधवः स्थिताः सन्ति तत्र सार्थः कश्चित् प्राप्तः, स चादित्योदयात् पूर्वमेवोत्थितः-उच्चलितुमारब्धो वर्त्तते, यत्र च गेतस्य तस्य रविरुदेष्यति तत्र गच्छतामपान्तराले स्तेनभयम् , “समइच्छंता व ते वा वि" 20 त्ति 'ते वा' साधवो दग्ध हताद्युपधयः समतिकामन्तः-गच्छन्तः तं साथ रात्रौ प्राप्ताः, अतो रात्रावेव तत्र वस्त्रादिकं यतनया गृहन्ति ॥ २९९९ ॥ अथेदमेवोत्तरार्द्ध व्याचष्टे
सो वि य नत्तं पत्तो, नत्तं चिय चलिउमिच्छइ भयं च। .
ते वा नत्तं पत्ता, गिण्हिज पए चलिउकामा ॥३००० ॥ 'सोऽपि च' सार्थः 'नक्तं' रात्रौ तत्र ग्रामे प्राप्तः, नक्तमेव च ततश्चलितुमिच्छति, अपा-25 न्तराले च स्तेनादिभयम् ; 'ते वा' साधवो दवायुपधयः तं सार्थ 'नक्तं' रात्रौ प्राप्ताः, 'प्रगे' प्रभातेऽनुद्गत एव सूर्येऽग्रतश्चलितुकामाः, अतो रात्रावेव यथोक्तनीत्या वस्त्रादि गृहीयुः ॥३०००॥
॥ रात्रिवस्त्रादिग्रहणप्रकृतं समाप्तम् ॥
१
एतच्चिह्नगतः पाठः कां. भा० एव वर्तते ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org