________________
10
८४६
सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [वस्त्रप्रकृते सू० ४४ उत्तर मूले सुद्धे, नवे पुराणे चउक्कभयणेवं ।
परिकम्मण परिभोगे, न होंति दोसा अभिनवम्मि ॥२९९४ ॥ स ईंह मूलोत्तरगुणशुद्धयोश्चतुर्भङ्गी, तद्यथा-- मूलगुणशुद्धमप्युत्तरगुणशुद्धमपि १ मूलगुणशुद्धं नोत्तरगुणशुद्धम् २ न मूलगुणशुद्धमुत्तरगुणशुद्धम् ३ न मूलगुणशुद्धं नोत्तरगुण5 शुद्धम् ४ । एतेषु चतुर्यु भङ्गेषु प्रत्येकं नव-पुराणपदविषयं यद् भङ्गचतुष्कं तस्य भजना-सेवा यथाक्रममेवं कर्तव्या। तथाहि-यत् तावद् मूलोत्तरगुणविशुद्धं तत् प्रथमतो नवमपरिभुक्तं ग्रहीतव्यम् , तदभावे नवं परिभुक्तम् । तदप्राप्तौ पुराणमपरिभुक्तम् , तदलाभे पुराणं परिभुक्तम् । एवं द्वितीयतृतीयचतुर्थेष्वपि भङ्गेषु चत्वारश्चत्वारो विकल्पा भवन्ति, यथाक्रम
चैते आसेवितव्याः । कुतः ? इत्याह-परिकर्मणादोषाः-अविधिसीवनादयः परिभोगदोषाश्च10 मलिनीभूत-प्रक्षित सुगन्धिगन्धभावित्वादयोऽभिनवेऽपरिभुक्ते च वस्त्रे न भवन्ति । अथ पार्श्वस्थादिष्वपि न प्राप्यते ततोऽमनोज्ञसंयतीनामप्युपदेशेन गृह्णाति, तेषां वा अर्थाय ताः पर्यटन्ति, पूर्वगृहीतं वा तासां ग्रहीतव्यम् । तदभावेऽसंविग्नसंयतीनामप्युपदेशादिना गृह्णन्ति ॥ २९९४ ॥ अथैवमपि न प्राप्यते ततः किं कर्तव्यम् ? इत्याह
असईय लिंगकरणं, पन्नवणट्ठा सयं व गहणट्ठा ।
आगाढ़े कारणम्मी, जहेव हंसाइणो गहणं ॥ २९९५ ॥ एवमपि 'असति' अलभ्यमाने शाक्यादिवेषेण तदीयोपासकानां यतिभ्यो वस्त्रदापनाय प्रज्ञापनार्थ स्वयं वा ग्रहणं-वस्त्रस्योत्पादनं तदर्थं परलिङ्गं कर्त्तव्यम् । किं बहुना ? ईदृशे आगाढे कारणे यथैव हंसतैलादेरनुज्ञापितस्यापि ग्रहणं दृष्टं तथैव वस्त्रस्यापि द्रष्टव्यम् । तथाप्यलाभे सूत्रं मार्गयित्वाऽन्यैर्वाययति । तदभावे खयमेवाल्पसागारिके वयति ॥ २९९५ ॥ 20 अथ सूत्रं न लभ्यते ततः को विधिः ? इत्याह
सेडुय रूए पिंजिय, पेलु ग्गहणे य लहुग दप्पेणं ।
तव-कालेहि विसिट्ठा, कारणे अकमेण ते चेव ॥ २९९६ ॥ . 'सेडगो नाम' कर्पासः, स एव लोढितः सन् वीजरहितो रूतम् , तदेव रूतं पिञ्जनिकया
ताडितं पिञ्जितम् , तदेव पूणिकया वलितं पेलुरिति भण्यते । एतेषां यदि दर्पण ग्रहणं करोति 2 तदा चत्वारो लघुकास्तपः-कालाभ्यां विशिष्टाः । तत्र सेडुके उभयगुरुकाः, रूते तपोगुरुकाः, पिञ्जिते कालगुरुकाः, पेलुके द्वाभ्यां लघुकाः । कारणे पुनः प्रथमं पेलुकं पश्चात् पिञ्जितं ततो रूतं ततः सेडुकमपि गृह्णाति । अथाक्रमेण गृह्णाति ततस्त एव चत्वारो लघुकाः । सेडुकं च त्रिवर्षातीतं विध्वस्तयोनिकमेव ग्रहीतुं कल्पते न सचित्तम् ॥ २९९६ ॥ ... ततश्च सेडुकादीनि गृहीत्वा किं करोति ? इत्याह-~ 30 कडजोगि एकओवा, असईए नालबद्धसहिओ वा ।
निप्फाए उवगरणं, उभओपक्खस्स पाओग्गं ॥ २९९७ ॥ ११- एतच्चिह्नगतः पाठः का• एव वर्तते ॥ २°लादीनामनुज्ञापितानामपि ग्रह भा० ॥ ३ » एतच्चिदगतमवतरणं कां० एव वर्तते ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org