________________
10
भाष्यगाथाः २९८८-९३] प्रथम उद्देशः ।
८४५ प्रयच्छन्ति । ये त्वाभिग्रहिकमिथ्यादृष्टयस्ते साधुदर्शनप्रद्वेषतो विषं प्रयुञ्जीरन् हीला वा कुर्यु:अहो ! अदत्तदाना अमी वराका इत्थं क्लिश्यन्तीत्यादि ॥ २९९० ॥ अथानागाढमिथ्यादृष्टिषु शुद्धं न प्राप्यते ततः किं विधेयम् ? इत्याह
असंविग्गभाविएसुं, आगाटेसुं जयंति पणगादी ।
उवएसो संघाडग, पुबग्गहियं व अन्नेसु ॥ २९९१ ॥ असंविमभावितेषु यद् उद्गमादिदोषविशुद्धं वस्त्रं तद् ग्रहीतव्यम् । तदभावे आगाढमिथ्यादृष्टिप्वपि यद्यात्म-प्रवचनोपघातो न स्यात् । अथ तेप्वपि शुद्धं न प्राप्यते ततः संविग्नभावितादिष्वेव पञ्चकादिपरिहाण्या तावद् यतन्ते यावद् भिन्नमासं प्राप्ता भवन्ति । ततो अन्यसाम्भोगिकैर्येषु कुलेषुपदेशो दत्तः तेषु याचितव्यम् । तथाप्यप्राप्तौ तेषां सङ्घाटकेन । एवमप्यलाभे तेषामेव यत् पूर्वगृहीतं वस्त्रादि तद् ग्रहीतव्यम् ॥ २९९१ ॥ अमुमेवार्थ सविशेषज्ञापनाय पुनरप्याह
उवएसो संघाडग, तेसिं अट्टाए पुव्वगहियं तु ।
अभिनव पुराण सुद्धं, उत्तर मूले सयं वा वि ॥ २९९२ ॥ अन्यसाम्भोगिकोपदेशेन प्रथमतः पर्यटन्ति । ततस्तदीयसङ्घाटकेन । तथाप्यप्राप्तौ तेषामयान्यसाम्भोगिकाः पर्यटन्ति । तथापि यदि न लभ्यते ततस्तेषामेव यत् पूर्वगृहीतं वस्त्रं तद् 15 ग्रहीतव्यम् । तच्चाभिनवं वा स्यात् पुराणं वा, पूर्वमभिनवं पश्चात् पुराणमपि गृह्यते । तदपि यद्युत्तरगुण-मूलगुणशुद्धं तत उपादेयं नान्यथा । अथ सर्वथाऽपि न प्राप्यते ततो यः कृतकरणो भवति तेन खयमेव व्यूतव्यम् । एतच्च यथावसरमुत्तरत्र भावयिष्यते ॥ २९९२ ॥
तदेवमन्यसाम्भोगिकानामपि पूर्वगृहीतं यदा न प्राप्यते तदा मासलघुकादारभ्य तावद् यतन्ते यावत् चतुर्लघुकं प्राप्ताः । ततः किं कर्त्तव्यम् ? इत्याह
उवएसो संघाडग, पुव्वग्गहियं व निइयमाईणं ।
अभिनव पुराण सुद्धं, पुव्यमभुत्तं ततो भुत्तं ॥ २९९३ ॥ चतुर्लघुप्राप्ताः सन्तो नित्यवासि-पार्श्वस्थादीनामुपदेशेन वस्त्रमुत्पादयन्ति । तदभावे तेषामेव सङ्घाटकेन । तथाऽप्यलाभे यत् तेषां पूर्वगृहीतं मूलोत्तरगुणशुद्धमभिनवमपरिभुक्तं तत् प्रथमतो ग्रहीतव्यम् , ततः परिभुक्तमपि । तदप्राप्तौ पुराणमपि मूलोत्तरगुणशुद्धमपरिभुक्तम् , ततः परि-25 भुक्तमपि ग्राह्यम् । इह निशीथचूर्ण्यभिप्रायेणास्यैव कल्पस्य विशेषचूर्ण्यभिप्रायेण चान्यसाम्भोगिकान् यावन्नास्ति पञ्चकपरिहाणिः किन्तु तत ऊर्द्ध पञ्चकपरिहाण्या यतित्वा यदा मासलघुप्राप्ताः तदा पार्श्वस्थादीनामुपदेशादिना गृह्णन्तीति द्वयोरपि चूर्योरभिप्रायः; परमेतञ्चूर्णिकृता भिन्नमासप्राप्ता अन्यसाम्भोगिकानां चतुर्लघुप्राप्ताश्च पार्श्वस्थादीनामुपदेशादिना वस्त्र. ग्रहणे यतन्त इति प्रतिपादितम् ; अतस्तदनुरोधेनास्माभिरपि तथैव व्याख्यातमित्यवगन्तव्यम् ३० ॥ २९९३ ॥ अथोक्तमप्यर्थं विशेषज्ञापनार्थं भूयोऽप्याह१ °म्भोगिकैरुपदिष्टेषु कुलेषु मार्गयितव्यम् । भा० ॥ २ °वार्थ विधिशेष त० डे० ॥ ३ पदेशो येषु कुलेषु जातस्तेषु प्रथ' का० ॥
20
Jain Education International
•
For Private & Personal Use Only
www.jainelibrary.org