________________
८४४
सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [वस्त्रप्रकृते सू० ४४ प्रेषयन्ति । अथ नास्ति क्षुल्लकः क्षुल्लिका वा ततो यस्ततो ग्रामाद नगराद्वा 'अगारः' गृहस्थः समायातः यो वा साधुर्विचारभूम्यादावागतस्तं "अप्पाहिति" सन्दिशन्ति, यथा-साधु-साध्वीप्रभृतीनां साम्भोगिकसंयतादीनां वा भवता कथयितव्यम्-साधवः साध्व्यश्च बहिरग्रोद्याने स्थिताः सन्ति, ते चाध्वनि स्तेनैर्विविक्ताः, अतस्तेषां योग्यानि चीवराणि प्रेषणीयानि । अत्र 5 चायं विधिः-संयतैः संयतानां वस्त्राणि दातव्यानि, संयतीनां तु संयतीभिः । अथ तत्र संयताः संयत्यो वा न सन्ति तदा श्रावकाः श्राविका वा प्रयच्छन्ति ।। २९८७ ॥ यत्र तु संयत्यः संयतानां संयता वा संयतीनां प्रयच्छन्ति तत्र विधिमाह
खुड्डी थेराणऽप्पे, आलोगितरी ठवित्तु पविसंति ।
ते वि य घेत्तुमइगया, समणुन्नजढे जयंतेवं ॥ २९८८ ॥ 10 क्षुल्लिका उद्यानं गत्वा स्थविरसाधूनां वस्त्राण्यर्पयन्ति; अथ न सन्ति क्षुल्लिकाः ततः 'इतराः'
मध्यमास्तरुण्यो वा गत्वा स्थविराणामालोके स्थापयित्वा भूयोऽपि ग्रामं प्रविशन्ति । यत्र संयतैः संयतीनां दातव्यं तत्र क्षुल्लकाः स्थविरसाध्वीनामर्पयन्ति; क्षुल्लकाभावे शेषा अपि साधवः स्थविराया आलोके स्थापयन्ति । 'तेऽपि च' संयताः संयतीदत्तानि वस्त्राणि गृहीत्वा प्रावृत्य नगरम् 'अतिगताः' प्रविष्टाः सन्त आत्मयोग्यमुपकरणमुत्पाद्य संयतीसत्कवस्त्राणि प्रत्यर्पयन्ति । 15 एवं समनोज्ञेषु विधिरुक्तः । “समणुन्नजढे जयंतेवं" ति यत्र समनोज्ञाः-साम्भोगिका न भवन्ति तत्र ‘एवं' वक्ष्यमाणनीत्या यतन्ते ॥ २९८८ ॥
अद्धाणनिग्गयाई, संविग्गा सन्नि दुविह अस्सण्णी ।
संजइ एसणमाई, असंविग्गा दोण्णि वी वग्गा ॥ २९८९ ॥ अध्वनो निर्गता यत्र ग्रामादौ प्राप्तास्तत्रेमे भवेयुः-'संविनाः' उद्यतविहारिणः, ते चेहा20 न्यसाम्भोगिका गृह्यन्ते । 'संज्ञिनः' श्रावकास्ते द्विविधाः-संविमभाविता असं विग्नभाविताश्च ।
असंज्ञिनोऽपि द्विविधाः-आभिग्रहिका-ऽनाभिग्रहिकमिथ्यादृष्टिभेदात् । “संजइ" ति अमनोज्ञसंयत्यः । असंविमा अपि द्वौ वर्गों, तद्यथा-साधुवर्गः साध्वीवर्गश्च । अत्र विधिरुच्यते"एसणमाइ" ति संज्ञिप्रभृतिषु शुद्धं वस्त्रमप्राप्नुवन्तः पञ्चकपरिहाणिक्रमेणैषणादोषेषु यतन्त इति ॥ २९८९ ॥ अथैतदेव सविस्तरं व्याख्यानयति25. संविग्गेतरभाविय, सन्नी मिच्छा उ गाहणागाढे ।
असंविग्ग मिगाहरणं, अभिग्गहमिच्छेसु विस हीला ॥ २९९० ॥ संज्ञिनो द्विविधाः-संविमभाविता इतरभाविताश्च । मिथ्यादृष्टयोऽपि द्विविधाः--आगाढा अनागाढाश्च । तत्र प्रथमं संविग्नभावितेषु संज्ञिषु, तदेप्राप्तावनागाढमिथ्यादृष्टिषु शुद्धं वस्त्रमन्वेषणीयम् । असंविमभावितेष्वागाढमिथ्यादृष्टिषु च न गृह्णन्ति, कुतः ? इत्याह -असंविग्न30 भाविताः ‘मृगाहरणं' लुब्धकदृष्टान्तं (गा० १६०७) चेतसि प्रणिधाय साधुनामकल्प्यं
१ यतनामेवाह इत्यवतरणं कां• ॥ २ अध्वनिर्गताः आदिशब्दाद् वसिमे वर्तमाना उपधेरभावे वक्ष्यमाणां यतनां कुर्वन्ति । तत्र ते साधवोऽध्वनो निर्गता का ० ॥ ३ °न्ते, साम्भो. गिकेषु विधेरुक्तत्वात् । 'संक्षिनः' कां• ॥४ अथैनामेव नियुक्तिगाथां सवि कां० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org