________________
८४२ सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे वस्त्रपकृते सू० ४४
सट्ठाणऽणुकंप तहिं, समणुनियरासु वि तहेव ॥ २९८० ॥ यत्र मुनयो न विविक्ताः श्रमण्यश्च गृहिणश्च यत्र "उढ' त्ति मुषिताः तत्र 'स्वस्थाने' संयतीवर्गेऽनुकम्पा कर्त्तव्या । ताश्च संयत्यो द्विविधाः-संविना असंविनाश्च । यदि सन्ति ततः सर्वासामपि दातव्यानि । अथ न सन्ति तावन्ति वस्त्राणि ततः संविमसंयतीनां देयानि । ता 5 अपि द्विविधाः-समनोज्ञाः-साम्भोगिन्य इतराश्च-असाम्भोगिन्यः । यदि पूर्यन्ते ततो द्वयोरपि वर्गयोस्तथैव दातव्यानि । अथ न पूर्यन्ते ततः स्वस्थाने दातव्यानि, समनोज्ञानामित्यर्थः। १ अपिशब्दाद् या धृतिदुर्बलास्ताः संविमा असंविमा वा स्थविरास्तरुण्यो वा भवन्तु नियमात् तासां दातव्यम् ॥ २९८० ॥
यत्र साधवो विविक्तास्तत्रेयं यतना10
लिंगट्ट भिक्ख सीए, गिण्हती पाडिहारियमिमेसु ।
अमणुन्नियरगिहीसुं, जं लद्धं तन्निभं दिति ॥ २९८१ ॥ लिङ्गार्थ तावदवश्यं रजोहरण-मुखवस्त्रिके ग्रहीतव्ये, भिक्षार्थ तु पात्रबन्ध-पटलकादि, शीतत्राणार्थं तु प्रावरणादि, एतत् सर्वमपि प्रातिहारिकमेतेषु गृह्णन्ति । तद्यथा-अमनोज्ञाः
असाम्भोगिकाः इतरे-पार्श्वस्थादयः गृहिणः-प्रतीताः, १ एतेषु यदि प्राप्यते ततः सुन्दरमेव, » 18 अर्थतेषु न प्राप्यते ततः संयतीनामपि हस्तात् प्रातिहारिकं ग्राह्यम् । ततो र अँध्वोत्तीर्णैः ।यत् चोलपट्टादिकं यदा लब्धं भवति तदा 'तन्निभं' तत्सदृशं प्रातिहारिकम् । असाम्भोगिकादीनां » 'ददति' प्रत्यर्पयन्ति । इह द्वितीयभङ्गे व्याख्यायमाने प्रथम-तृतीय-चतुर्थभङ्गा अपि लेशतः स्पृष्टा अवगन्तव्याः ॥२९८१॥ गतो द्वितीयभङ्गः । अथ तृतीयभङ्गं व्याख्यानयति
उडूढे व तदुभए, सपक्ख परपक्ख तदुभयं होइ ।
अहवा वि समण समणी, समणुनियरेसु एमेव ॥ २९८२ ॥ तदुभये वा 'उद्दढे' मुषिते सत्येवमेव यतना ज्ञातव्या । अथ तदुभयमिति किमुच्यते ? इत्याहा बँपक्षः परपक्षश्चेति तदुभयं भवति, » स्वपक्षः-संयताः परपक्षः-गृहस्थाः । अथवा तदुभयं नाम श्रमणाः श्रमण्यश्च । यद्वा तदुभयं समनोज्ञाः 'इतरे' अमनोज्ञाश्च । • अंपिशब्दाद् व्यवहितसम्बन्धादत्र योजिताद् ! यदि वा संविना असंविनाश्चेति तदुभयम 25॥ २९८२ ॥ तत्र मुषिते सति विधिमाह
अमणुन्नेतर गिहि-संजईसु असइ पडिसत्थ-पल्लीसु ।
तिण्हऽट्ठाए गहणं, परिहारिय एतरे चेव ॥ २९८३ ॥ १°धा:-"समणुन्न" त्ति समनोज्ञया-परस्परसदृशया सामाचार्या वर्तन्त इति समनोहा:-कां० ॥२ एतदन्तर्गतः पाठः भा० नास्ति ॥ ३-४-५ एतदन्तर्गतः पाठः का. एव वर्तते ॥ ६ एतदन्तर्गतः पाठः त. डे० मो० ले० नास्ति ॥ ७ एतदन्तर्गतः पाठः कां• एव वर्तते ॥
८°म् । एतेष्वपि मुषितेषु 'एवमेव' अनन्तरोक्तो विधिद्रष्टव्यः ॥ २९८२॥ यस्तु विशेषस्तमुपदर्शयति-अमणुन्ने का० ॥ ९ समणुन्ने भा० विशेषचूर्णौ च । दृश्यतां पत्र ८४३ टिप्पणी १।त. डे. का. मो.ले. प्रतिषु चूर्णी वृहद्भाष्ये च अमणुन्ने° इति वत्तेते ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org