SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथाः २९७२-७९] प्रथम उद्देशः । ८४१ 'गमनं नाम' येषां गृहस्थानां तद् वस्त्रं प्रदत्तं ते यद्यन्येन पथा गच्छन्ति ततः साधुभिरपि तेनैव पथा गन्तव्यम् ; यद्यन्येन व्रजन्ति ततश्चतुर्लघु । यदा तेऽध्वनो निर्गता भवन्ति तदा छिन्नस्यापि तस्यैव वस्त्रस्य ग्रहणं कर्त्तव्यं नान्यस्य ॥ २९७६ ॥ ततः पुनर्वस्त्रं कीदृशं दातव्यम् ? इत्याह--- दंडपडिहारवजं, चोल-पडल-पत्तबंधवजं च । परिजुण्णाणं दाणं, उड्डाह-पओसपरिहरणा ॥ २९७७॥ महती जीर्णकम्बलिका दण्डपरिहार उच्यते, तद्वर्जम् , चोलपट्ट-पडलक-पात्रबन्धवर्ज च यानि शेषाणि परिजीर्णवस्त्राणि तेषामुड्डाह-प्रद्वेषपरिहरणार्थ दानं कर्त्तव्यम् । उड्डाहो नामअहो ! अमीषामनुकम्पा ये विविक्तानामप्यस्माकं चीवराणि न प्रयच्छन्ति, प्रद्वेषो नाम-अप्रीतिकम् ; तद्वशाच प्रान्तापनादयो दोषास्तत्परिहरणार्थं दातव्यम् ॥ २९७७ ॥ अथ “छिन्नं पि" त्ति ( गा० २९७४ ) योऽयमपिशब्दस्तत्सूचितमिदमपरमाह धोयस्स व रत्तस्स व, अन्नस्स वऽगिण्हणम्मि चउलहुगा। तं चेव घेत्तु धोउं, परिभुंजे जुण्णमुज्झेजा ॥ २९७८ ॥ यदि तैर्गृहस्थैस्तद् वस्त्रं धौतं वा रक्तं वा तथापि तस्यैव ग्रहणं कर्त्तव्यम् । अथासाधुप्रायोग्यं कृतमिति मत्वा न गृह्णन्ति अन्यस्य वा ग्रहणं कुर्वन्ति तदा चतुर्लघवः । अतस्तदेव 15 वस्त्रं गृहीत्वा क्षारादिना धौवा च साधुप्रायोग्यं कृत्वा परिभुञ्जते। अथातीव जीर्ण ततः 'उज्झेयुः' परिष्ठापयेयुरित्यर्थः ॥ २९७८ ॥ . गतः प्रथमो भङ्गः । अथ 'गृहस्थभद्रकाः संयतप्रान्ताः' इति द्वितीयो भङ्गो भाव्यते तत्र भूयश्चतुर्भङ्गी-संयत्यो विविक्ता न संयताः १ संयता विविक्ता न संयत्यः २ संयत्योऽपि विविक्ताः संयता अपि विविक्ताः ३ न संयत्यो नापि संयता विविक्ताः ४ । अत्र विधिम-20 भिधित्सुराह सट्ठाणे अणुकंपा, संजय पडिहारिए निसिटे य । असईअ तदुभए वा, जयणा पडिसत्थमाईसु ॥ २९७९ ॥ यंत्र संयता गृहिणश्च विविक्ता न संयत्यः तत्र संयतीनां खस्थानं साधवः तत्रानुकम्पा कर्तव्या, साधूनां वस्त्रं दातव्यमित्यर्थः, साधुभिरपि तत् प्रातिहारिकं ग्राह्यम् । यत्र संयत्यों गृहस्थाश्च मुषिता न संयताः तत्र साधूनां संयत्यः खस्थानं तासां वस्त्रदानेनानुकम्पा कर्तव्या, तच्च 'निसृष्टं' निदे दातव्यं न प्रातिहारिकम् । “असईय" ति अथात्मनोऽप्यधिकमुपकरणं नास्ति ततः प्रातिहारिकमपि तासां दातव्यम् । तथा तदुभयं-साधुसाध्वीवर्गः तस्य विविक्तस्य वस्त्राभावे प्रतिसार्थादिषु 'यतना' वस्त्रान्वेषणविषया कर्त्तव्येति सङ्ग्रहगाथासमासार्थः॥२९७९॥ अथैनामेव विवृणोति न विवित्ता जत्थ मुणी, समणी य गिही य जत्थ उद्दढा। १ तदेव ग्रहीतव्यम् । अथा भा० ॥ २ साधु-साध्वीजनैः स्तेनविविक्तैः सद्भिः स्वस्था नेऽनुकम्पा कर्तव्या। तत्र यत्र संयता का० ॥ ३ नियुक्तिगाथा कां.॥ 30 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002512
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 03
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages364
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy