________________
८४०
सनियुक्ति-लधुभाष्य-वृत्तिके बृहत्कल्पसूत्रे वस्त्रप्रकृते सू० ४ ४ द्वितीयपंदमत्रोच्यते-'विहे' अध्धनि 'विविक्ताः' मुषिताः सन्तः प्रतिसार्थादिकं समेत्य' प्राप्य रजन्यामपि वस्त्र-प्रतिग्रहादिकं गृह्णन्ति । तत्रापि कथम् ? इत्याह-तावुभावपि सार्थो 'प्रगे' प्रातरेवानुद्गते सूर्ये चलिष्यतः, ‘एको वा' अन्यतरः सार्थप्रतिसार्थयोर्मध्ये चलिष्यतीति मत्वा
रात्रावपि ग्रहणं कुर्वन्ति । अत एव चोत्सर्गपदेऽध्वा गन्तुमेव न कल्पते यत्रैते दोषा उत्पद्यन्ते 5॥ २९७१ ॥ तथा चाह
उद्दद्दरे सुभिक्खे, अद्धाणपवजणं तु दप्पेण ।
लहुगा पुण सुद्धपदे, जं वा आवजई जत्थ ॥ २९७२ ॥ ईयं रात्रिभक्तसूत्रे » व्याख्यातार्था (गा० २८७८ ) ॥२९७२ ॥ द्वितीयपदमाह
नाणट्ठ दंसणट्ठा, चरित्तट्ठा एवमाइ गंतव्वं । 10
उवगरण पुत्रपडिलेहिएण सत्थेण गंतव्वं ॥ २९७३ ॥ इयमपि गतार्थी (गा० २८७९) ॥ २९७३ ॥
सत्थे विविच्चमाणे, असंजए संजए तदुभए य ।
मग्गंते जयण दाणं, छिन्नं पि हु कप्पई घेत्तुं ॥ २९७४ ॥ ज्ञानाद्यर्थमध्वानं प्रतिपन्नानामपान्तराले चतुर्विधाः स्तेना भवेयुः-एके असंयतप्रान्ताः १ 18 अन्ये संयतप्रान्ताः २ अपरे तदुभयप्रान्ताः ३ अन्ये तदुभयभद्रकाः ४ । तत्रासंयतप्रान्तैः स्तेनैः सार्थे 'विविच्यमाने' मुष्यमाणेऽत एव साधूनां पार्थाद् वस्त्राणि मार्गयति यतनया दानं कर्तव्यम् । प्रत्यर्यमाणं च च्छिन्नमपि तदेव वस्त्रं ग्रहीतुं कल्पते नान्यदिति सङ्ग्रहगाथासमासार्थः ॥ २९७४ ॥ अथैनामेव विवरीषुराह
संजयभद्दा गिहिभद्दगा य पंतोभए उभयभद्दा । 20
तेणा होति चउद्धा, विगिचणा दोसु तू जइणं ॥ २९७५ ॥ ___ एके स्तेनाः संयतभद्रकाः परं गृहस्थप्रान्ताः, अपरे गृहस्थभद्रकाः परं संयतप्रान्ताः, अन्ये उभयेषामपि प्रान्ताः, अपरे उभयेषामपि भद्रकाः, एवं स्तेनाश्चतुर्विधा भवन्ति । अत्र च द्वितीयतृतीययोर्द्वयोर्भङ्गयोर्यतीनां 'विवेचनं' वस्त्रेभ्यः पृथक्करणं भवति ॥ २९७५ ॥ अथ यत्र संयता न विविक्ताः स गृहस्थास्तु विविक्ताः । तत्र विधिमाह--
जइ देंतऽजाइया जाइया व न वि देति लहुग गुरुगा य ।
सागार दाण गमणं, गहणं तस्से नऽन्नस्स ।। २९७६ ॥ साधवो यद्ययाचिताः सन्तो वस्त्राणि गृहिणां प्रयच्छन्ति तदा चतुर्लघु । अथ याचिताः सन्तो न प्रयच्छन्ति तदा चत्वारो गुरवः । अतः 'साकार' प्रातिहारिकं भणित्वा प्रयच्छन्ति, यथा-भवद्भिः प्रत्यर्पणीयमिदमस्माकं यद्यग्विर्तमाना गृहं वा गता अन्यद् वस्त्रं लभध्वे । १°पदे विहे' भा०॥ २॥ एतदन्तर्गतः पाठः कां० एव वर्तते ॥ ३ काः ४। यत्र च गृहस्था विविक्तास्तत्र तेषां वस्त्राणि मार्गयतां यतनया भा० ॥ ४°ति नियुक्तिगाथा कां०॥ ५एके गृह त• डे• मो० ले० ॥ ६। एतदन्तर्गतः पाठः भा० कां० एव वर्तते ॥ ७°व वत्थस्स भा० को० विना ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org