________________
८२४
सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ रात्रिभक्तप्रकृते सू० ४२ जत्थ विसेसं जाणंति तत्थ लिंगेण चउलहू पिसिए ।
अभाएण उ गहणं, सत्थम्मि वि होइ एसेव ।। २९१०॥ यत्र ग्रामे विशेषं जानन्ति यथा 'साधवः पिशितं न भुञ्जते' तत्र यदि स्खलिङ्गेन पिशितं गृहन्ति तदा चतुर्लघवः । अतोऽज्ञातेनैव तत्र ग्रह्ण कार्यम् , परलिङ्गेनेत्यर्थः । स्तेनपल्यादी5 नामभावे सार्थेऽपि पुद्गलग्रहणे एष एव क्रमो विज्ञेयः ॥२९१० ॥ अथ शून्यग्रामद्वारमाह--
अद्धाणासंथरणे, मुन्ने दव्मम्मि कप्पई गहणं ।
लहुओ लहुया गुरुगा, जहन्नए मज्झिमुक्कोसे ॥ २९११ ॥ अध्वप्रतिपन्नानामसंस्तरणे जाते 'शून्यग्रामे' तं सार्थमायान्तं दृष्ट्वा 'चौरसेना समागच्छति' इति शक्कयोद्वसिते ग्राने । जघन्यमध्यमोत्कृष्टभेदभिन्नस्य 'द्रव्यस्य' आहारादेब्रह्म कत्तुं 10 कल्पते । । अत्र "दवन्मि" ति षष्ठ्यर्थे सप्तमी । - अथ संस्तरणे गृह्णाति तत इदमोघतः प्रायश्चित्तम्-जघन्ये मासलघु, मध्यमे चत्वारो लघवः, उत्कृष्टे चत्वारो गुरवः ॥ २९११ ॥ आह जघन्यमध्यमोत्कृष्टान्येव वयं न जानीमः अतो निरूप्यतामेतत्स्वरूपम् , उच्यते
उकोसं विगईओ, मज्झिमगं होइ कूरमाईणि ।
दोसीणाइ जहन्नं, गिण्हते आयरियमादी ।। २९१२ ॥ 15 उत्कृष्टं द्रव्यं 'विकृतयः' दधि-दुग्ध-घृतादयः, मध्यमं द्रव्यं कूर-कुसणादीनि, जघन्यं द्रव्यं दोषान्नादि । एतानि गृह्णतामाचार्यादीनामाज्ञादयो दोषाः ॥ २९१२ ॥
अथ पुरुषविभागेन प्रायश्चित्तम
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org