________________
सनिर्युक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ रात्रिभक्तप्रकृते सू० ४२
पुरतो वच्चंत मिगा, मज्झे वसभा उ मग्गओ सीहा । पिट्ठओं वसभऽन्नेसिं, पडियाऽसहुरक्खगा दोहं ॥ २९०१ ॥ अध्वनि गच्छतां पुरतः 'मृगाः' अगीतार्था मध्ये 'वृषभाः ' समर्थ - गीतार्थाः 'मार्गतः ' पृष्ठतः 'सिंहाः' गीतार्था व्रजन्ति । अन्येषामाचार्याणां मतेन पृष्ठतो वृषभा व्रजन्ति । किं 5 कारणम् ? इति अत आह— 'द्वयानां' मृग-सिंहानां बाल-वृद्धानां वा ये 'पतिताः' परिश्रान्ता ये च 'असहिष्णवः' क्षुधा पिपासापरीषहाभ्यां पीडितास्तेषां रक्षका वृषभाः पृष्ठतः स्थिता व्रजन्ति ॥ २९०१ ॥ अथवा
10
८२२
पुरतो य पासतो पितो य वसभा हवंति अद्धाणे ।
गणवइपासे वसभा, मिगमज्झे नियम वसभेगो ।। २९०२ ॥
अध्वनि व्रजतां वृषभाः पुरतः पार्श्वतः पृष्ठतश्च व्रजन्ति । तथा गणपतिः - आचार्यस्तस्य पार्श्वे नियमादेव वृषभा भवन्ति । मृगाणां च मध्ये नियमादेको वृषभो भवति ॥ २९०२ ॥ ते च वृषभः किं कुर्वन्ति ? इत्याह
-
वसभा सीहेसु मिगेसु चैव थामावहारविजढा उ ।
15
जो जत्थ होइ असहू, तस्स तह उवग्गह कुणंति ॥ २९०३ ॥ वृषभाः ‘स्थामापहारविमुक्ताः' अनिगूहितबल-वीर्याः सन्तो मृगेषु सिंहेषु वा यो यत्र येषां मध्ये असहिष्णुर्भवति तस्य तथोपग्रहं कुर्वन्ति ॥ २९०३ ॥ कथम् ? इत्याहभत्ते पाणे विस्सामणे य उवगरण - देहवहणे य ।
थामावहारविजढा, तिन्नि वि उवगिण्हए वसभा ।। २९०४ ॥
मृगाणां सिंहानां वृषभाणां च मध्ये यः क्षुधार्त्तो भवति तस्य भक्तं प्रयच्छन्ति, पिपासितस्य 20 पानकं ददति, परिश्रान्तस्य विश्रामणां कुर्वन्ति । य उपकरणं देहं वा वोढुं न शक्नोति तस्य तयोर्वहनं कुर्वन्ति । एवं स्थामापहारविमुक्ता वृषभाः 'त्रीनपि' मृग-सिंह- वृषभानुपगृह्णन्ति ॥ २९०४ ॥ जो सो उवगरणगणो, पविसंताणं अणागयं भणिओ ।
सट्टा सट्ठाणे, तस्सुवओगो इहं कमसो ।। २९०५ ॥
अध्वनि प्रविशतां योऽसौ तलिकादिरूपकरणगणोऽनागतं ग्रहीतव्यो भणितः तस्येह स्वस्थाने 25 स्वस्थाने अचक्षुर्विषयगमनादावुपस्थिते 'क्रमशः ' क्रमेणोपयोगः कर्त्तव्यः, येन यदा प्रयोजनं भवति तत् तदा तत्र प्रयोक्तव्यमिति भावः ।। २९०५ ॥
• अथाध्वनि गच्छतामेव भक्तपानालाभे विधिमाह –
-
असई य गम्ममाणे, पडिसत्थे तेण - सुन्नगामे वा ।
१ मिगा य मज्झम्मि वसभाणं भा० ता० । एतदनुसारेणैव भा० टीका । दृश्यतां टिप्पणी २ ॥
२ °न्ति । ये तु मृगास्ते वृषभाणां मध्ये भवन्ति ॥ २९०२ ॥ वसभा भा० ॥
३ मध्ये पुरतः पार्श्वतः पृष्ठतश्चासहि” `कां० ॥
४ एवं भक्तपानादिविषयं वैयावृत्त्यं स्थामा कां० ॥
५
एतन्मध्यगतः पाठः भा० त० डे० नास्ति ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org