________________
भाष्यगाथाः २८२४-२९००] प्रथम उद्देशः ।
८२१ परउत्थिगा व वसभा, सयं व थेरी व चउभंगो ॥ २८९८॥ यद् इहलोकापायप्रदर्शनं क्रियते साऽनुशिष्टिरुच्यते, यत् पुनरिह परत्र च सप्रपञ्चं कर्मविपाकोपदर्शनं सा धर्मकथा, तयाऽनुशिष्या धर्मकथया वा सार्थः सार्थवाह आयत्तिका वा उपशमयितव्याः, विद्यया मन्त्रेण वा ते वशीकर्तव्याः, निमित्तेन वा आवर्त्तनीयाः । यो वा साधुः प्रभुः-सहस्रयोधी बलवान् स सार्थवाहं बवा स्वयमेव सार्थमधिष्ठाय प्रभुत्वं करोति ।। एषा निष्काशने यतना । भिक्षाप्रतिषेधे पुनरियम् --सर्वथा भिक्षाया अलाभे वृषभाः परयूथिका भूत्वा भक्तपानमुत्पादयन्ति, सार्थवाहं वा प्रज्ञापयन्ति । यदि च सर्वेऽपि गीतार्थास्ततः 'स्वयं वा' खलिङ्गेनैव रात्रिभक्तविषयया चतुर्भङ्गया यतन्ते । अथागीतार्थमिश्रास्ततः स्थविराया गृहे निक्षिपन्ति ॥ २८५८ ॥ अमुमेवान्त्यपादं व्याख्यानयति
पडिसेह अलंभे वा, गीयत्थेसु सयमेव चउभंगो ।
थेरिसगासं तु मिए, पेसे तत्तो व आणीयं ॥ २८९९ ।। सार्थाधिपतिना भक्तपानस्य प्रतिषेधः कृतः, यद्वा न कृतः प्रतिषेधः परं स्तेनैः सार्थः सर्वोऽपि विलुलितः अतो भक्तपानं न लभ्यते, ततो यदि सर्वेऽपि गीतार्थास्तदा 'स्वयमेव' परलिङ्गमन्तरेण रात्रिभक्तचतुर्भङ्गी यतनया प्रतिसेवितव्या । गाथायां पुंस्त्वं प्राकृतत्वात् । अथागीतार्थमिश्रास्ततो यदि तत्र सार्थे भद्रिका स्थविरा विद्यते तदा तस्याः समीपे निक्षिपन्ति । 15 ततः स्थविरायाः सकाशं मृगान् प्रेष्य तेषां पाश्चीदानाययेत् , 'ततो वा' स्थविरासमीपादानीतमित्यगीतार्थानां पुरतो भणन्ति ॥ २८९९ ॥ अथवा
कुओं एवं पल्लीओ, सड्ढा थेरि पडिसत्थिगाओ वा।
नायम्मि य पचवणा, न हु असरीरो भवइ धम्मो ॥ २९००॥ वृषभैः स्थविरासमीपादानीते सति यदि ते मृगाः प्रश्नयेयुः-----कुत एतदानीतम् ?, ततो 20 वक्तव्यम् –पल्याः सकाशादिदमानीतम् , दानादिश्राद्धैर्वा दत्तम् , स्थविरया वा वितीर्णम् , प्रतिसार्थिकाद् वा लब्धम् । एवमपि यदि तैर्मृगैतिं भवति ततस्तेषां प्रज्ञापना कर्तव्याभो भद्राः ! नास्ति 'अशरीरः' शरीरविरहितो धर्मः अत इदं शरीरं सर्वप्रयत्नेन रक्षणीयम् , उक्तश्च
शरीरं धर्मसंयुक्तं, रक्षणीयं प्रयत्नतः ।
शरीराच्छ्वते धर्मः, पर्वतात् सलिलं यथा ॥ अतः प्रतिसेवध्वमिदम् ,» पश्चादिदं चान्यच्च प्रायश्चित्तेन विशोधयिष्याम इति ॥२९००॥ अथ पूर्वोक्तानां तिसृणामपि पर्षदां गमनविधिमाह१°न्ति । 'स्वयं वा' स्वलिङ्गेनैव रात्रौ भक्तमुत्पादयन्ति यदि सर्वेऽपि गीतार्थाः । अथागीतार्थ मिश्रास्ततः स्थविराया गृहे निक्षिपन्ति । एवं चतुर्भद्याऽपि यतन्ते ॥२८९८॥ भा०॥ २ दा "गीयत्थेसु" त्ति विभक्ति व्यत्ययाद् गीताथैः स्वय° कां० ॥ ३"विरामूलाद्वाऽऽनीतम्, प्र° भा० ॥ ४ ति यथा-सन्निधिस्थापितमिति, तत' का०॥ ५4 एतन्मध्यगतः पाठः कां. प्रतावेव वर्तते ॥
25
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org