________________
८२०
सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ रात्रिभक्तप्रकृते सू० ४२ एमाइ अणागयदोसरक्खणट्ठा अगेण्हणे गुरुगा।
अणुकूले निग्गमओ, पत्ता सत्थस्स सउणेणं ॥ २८९४ ॥ एवमादीनामुपकरणानामनागतमेव संयमात्मविराधनादिदोषरक्षणार्थं ग्रहणं कर्त्तव्यम् । अथ न गृह्णाति ततः प्रत्येकं चत्वारो गुरवः । गतमुपकरणद्वारम् । अथ पूर्वप्रत्युपेक्षितेन सार्थेन 5 गन्तव्यमिति व्याख्याति-"अणुकूले'' इत्यादि । अनुकूलं चन्द्रबलं ताराबलं वा यदा सूरीणां भवति तदा 'निर्गमकः' प्रस्थानं क्रियते । निर्गताश्चोपाश्रयाद् यावत् सार्थं न प्राप्नुवन्ति तावदात्मनैव शकुनं गृह्णन्ति । सार्थ प्राप्तास्तु सार्थसत्केन शकुनेन गच्छन्ति ॥ २८९४ ॥ इदमेव सविशेषमाह
. अप्पत्ताण निमित्तं, पत्ता सस्थम्मि तिनि परिसाओ । 10 सुद्धे त्ति पत्थियाणं, अद्धाणे भिक्खपडिसेहो ॥ २८९५ ॥
सार्थेऽप्राप्तानां 'निमित्तं' शकुनग्रहणं भवति । प्राप्तानां तु यः सार्थस्य शकुनः स संयतानामपि भवति । सार्थ च प्राप्ताः सन्तस्तिस्रः परिषदः कुर्वन्ति, तद्यथा-सिंहपर्पदं वृषभपर्पदं मृगपर्षदम् । तथा सार्थः 'शुद्धः' निर्दोष इति कृत्वा प्रस्थिताः परं यदा 'अध्वनि' अटवी प्राप्ता
भवन्ति तदा कोऽपि प्रत्यनीको भिक्षायाः प्रतिषेधं कुर्यादिति 'नियुक्तिगाथासमासार्थः 15॥ २८९५ ॥ अथ एनामेव विवरीषुः प्रथमपदव्याख्यानं सुगमत्वादनादृत्य » सिंहादीनां पर्षदां व्याख्यानमाह
कडजोगि सीहपरिसा, गीयत्थ थिरा य वसभपरिसा उ ।
सुत्तकडमगीयत्था, मिगपरिसा होइ नायव्वा ॥ २८९६ ।।। कृतयोगिनो नाम-गीतार्थाः परं न तो समर्थास्ते सिंहपर्षदुच्यन्ते, ये तु गीतार्था अपरं 20 च 'स्थिराः' बलवन्तस्ते वृषभपर्षद् , ये तु 'कृतसूत्राः' सूत्रेऽधीतिनः परमगीतार्थास्ते मृगपर्षदिति ज्ञातव्या भवति ॥ २८९६ ॥
अथ "सुद्धि त्ति पत्थियाणं" ति पदं व्याख्यायते-साधुमिः प्रथमत एव सार्थाधिपतिरभिधातव्यः-वयं युष्माभिः समं व्रजामो यद्यस्माकमुदन्तमुद्वहथ । एवमुक्ते यद्यसावभ्युपगच्छति ततः शुद्धः सार्थ इति मत्वा प्रस्थिताः, परमटवीप्राप्तानां कोऽप्येवं कुर्यात्
सिद्धत्थग पुप्फे वा, एवं वुत्तुं पि निच्छुभइ पंतो।।
भत्तं वा पडिसेहइ, तिण्हऽणुसट्ठाइ तत्थ इमा ॥ २८९७ ॥ यथा 'सिद्धार्थाः' सर्षपाश्चम्पकपुष्पाणि वा शिरसि स्थापितानि काञ्चिदपि पीडां न कुर्वन्ति, एवं यूयमपि मम कमपि भारं न कुरुथ । एवमुक्त्वाऽपि कश्चित् 'प्रान्तः' भिक्षूपासकादिरटवीमध्ये सार्थाद् निष्काशयति--मा यूयमस्माभिः सार्द्धमागच्छतेति; भक्तपानं वा प्रतिषेधयति30 माऽमीषां कोऽपि किञ्चिदपि दद्यात् ; ततः 'त्रयाणां' सार्थ-सार्थवाहा-ऽऽयत्तिकानामनुशिष्यादिका इयं यतना कर्तव्या ॥ २८९७ ॥ तामेवाह
अणुसट्ठी धम्मकहा, विज निमित्ते पभुत्तकरणं वा । १ एतचिहान्तर्गतः पाठः का० एव वर्तते ॥ २°था बलवन्तस्ते भा० ॥
25
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org