________________
10
भाण्यगाथाः २८७९-८५] प्रथम उद्देशः । णेन पिप्पलकादिलोहमयोपकरणानां च ग्रहणमध्वानं गच्छता कर्त्तव्यम् । नन्दीभाजनं धर्मकरकन्ध तथा 'परतीथिकोपकरणं' वक्ष्यमाणरूपं तथा 'गुलिका नाम तुवरवृक्षचूर्णगुटिकाः खोला:गोरसभावितानि पोतानि । एवमादीन्युपकरणानि ग्रहीतव्यानीति द्वारगाथासमासार्थः ॥२८८२॥ अथास्या एवाद्यपदं व्याचिख्यासुः प्रतिद्वारगाथामाह
तलिय पुडग वज्झे या, कोसग कत्ती य सिक्कए काए। ।
पिप्पलग सूइ आरिय, नक्खचणि सत्थकोसे य॥ २८८३ ॥ तलिकाः-उपानहः, पुटकाः-खल्लकानि, वर्भः-प्रतीतः, कोशकः-नखभरक्षार्थ यत्राकुल्यः प्रक्षिप्यन्ते, कृत्तिः-चर्म, सिक्ककं -प्रतीतम् , कायो नाम-कापोतिका, पिप्पलकः सूची आरिका च प्रतीताः, नखार्चनी-नखहरणिका, 'शस्त्रकोशः' शिरावेधादिशस्त्रसमुदाय इति प्रतिद्वारगाथासङ्केपार्थः ॥ २८८३ ॥ अथैनामेव गाथां प्रतिपदं विवृणोति
तलियाउ रत्तिगमणे, कंटुप्पहतेण सावए असहू ।
पुडगा विवचि सीए, वज्झो पुण छिन्नसंधट्ठा ॥ २८८४ ॥ तलिकाः-क्रमणिकास्ताश्च रात्री गमने कण्टकरक्षणार्थ पादेषु बध्यन्ते । सार्थवशाद्वा पन्थानं मुक्त्वोत्पथेन गच्छतां स्तेन-श्वापदभयेन वा त्वरितं गम्यमाने दिवाऽपि बध्यन्ते । 'असहिष्णुः' सुकुमारपादः स कण्टकसंरक्षणार्थ क्रमणिकाः पादयोध्नाति । ताश्च प्रथममेकतलिकाः, तदप्राप्ती 15 यावञ्चतुस्तलिका अपि गृह्यन्ते । 'पुटकानि' खल्लकानि तानि शीतेन पादयोः 'विवर्निकासु' विपादिकासु स्फटन्तीषु बध्यन्ते । 'वर्भः' पुनस्तलिकादीनां छिन्नानां-त्रुटितानां सन्धान-सङ्कदृनं तदर्थं गृह्यते ॥ २८८४ ॥
कोसग नहरक्वट्ठा, हिमा-ऽहि-कंटाइसू उखपुसादी।
कत्ती वि विकरणट्ठा, विवित्त पुढवाइरक्खट्ठा ।। २८८५ ॥ "कोसग" ति अङ्गुलीकोशको नखभङ्गरक्षार्थ गृह्यते, तत्र पादयोरमुल्योऽङ्गुष्ठकश्च प्रक्षिप्यन्ते । तथा हिम-शीतम् अहि-कण्टको-प्रतीतौ तदादिप्रत्यपायरक्षणार्थ खपुसा आदिशब्दादर्द्धजचिका-जचिकादयश्च गृह्यन्ते । 'कृत्तिः' चर्म तत् प्रलम्बादिविकरणार्थ गृखते, मा धूल्या लोलीभावमनुभूय मलिनानि भूवन्निति कृत्वा । तथा "विवित्त" चि ते साधवः कदापि सेनैः 'विविक्ताः' मुषिता भवेयुस्ततो वस्त्राभावे कृत्तिं प्रावृण्वन्ति । यत्र वा पृथिलीकायो भवति सत्र 25 कृत्तिं प्रस्तीर्य समुद्दिशन्ति, एवं पृथिवीकायरक्षा । आदिशब्दात् प्रतिलोमे वनदवे तृणरहितप्रदेशाभावे कृत्तिं प्रस्तीर्य तिष्ठन्तीति कृत्वा तेजःकायरेक्षाऽपि कृता स्यात् ॥ २८८५ ।। गतं चर्मद्वारम् । अथादिग्रहणलब्धे सिक्क-कापोतिके व्याख्यानयति
तहिँ सिकएहिँ हिंडति, जत्थ विवित्ता व पल्लिगमणं वा । १ प्रत्यन्तरेषु क्वचित् चर्मकरक इति वर्तते । एवमग्रेऽपि ज्ञातव्यम् ॥ २°ति गाथाद्वयसमा त• डे० मो० ले० ॥ ३°सार्थः । एतानि चर्ममयादीन्युपकरणानि ग्रहीतव्यानि ॥ २८८२ ॥ अथामा क. ४ °रक्षणार्थमपि कवियते ॥ २८८५ ॥ का• ॥
20
-
-
-
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org