________________
८१६
सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ रात्रिभक्तप्रकृते सू० ४२ चतुर्थभङ्गयोरध्वगमनं कर्त्तव्यम् । अथ प्रथमतृतीयभङ्गयोरध्वप्रतिपत्तिं दर्पतः करोति तदा शुद्धपदेऽपि चत्वारो लघुकाः । यद् वा यत्र संयमविराधनादिकमापद्यते तन्निष्पन्नं तत्र प्रायश्चित्तं द्रष्टव्यम् ॥ २८७८ ॥ प्रथमतृतीयभङ्गयोरप्येतैः कारणैर्गन्तुं कल्पत इति दर्शयति
नाणट्ठ दसणट्ठा, चरितट्ठा एवमाइ गंतव्वं ।
उवगरणपुव्वपडिलेहिएण सत्येण गंतव्यं ॥ २८७९ ॥ [नि.भा.३४२७] ज्ञानाथ दर्शनार्थ चारित्रार्थमेवमादिभिः कारणैर्गन्तव्यम् । गच्छद्भिश्च तलिकादिकमुपकरणं ग्रहीतव्यम् । पूर्वप्रत्युपेक्षितेन च सार्थेन सह गन्तव्यमिति नियुक्तिगाथासमासार्थः ॥२८७९॥ अथैनामेव व्याख्यानयति
सगुरु कुल सदेसे वा, नाणे गहिए सई य सामत्थे ।
बच्चइ उ अन्नंदेसे, दंसणजुत्ताइअत्थो वा ॥ २८८० ॥ ज्ञानम्-आचारादिश्रुतं तद् यावत् खगुरूणां समीपे सूत्रतोऽर्थतश्च विद्यते' तावति सम्पूर्णेऽपि गृहीते, स यद्यपरस्यापि श्रुतस्य ग्रहणे सामर्थ्यमस्ति । ततः खंदेशे यदात्मीयं कुलं तत्र, तदभावे परकुले वा गत्वा शेषश्रुतग्रहणं कर्त्तव्यम् । अथ नास्ति खदेशे तथाविधः कोऽपि बहु
श्रुत आचार्यस्ततोऽन्यदेशं गच्छति । तत्रापि ये आसन्नतरा एकवाचनाकाश्चाचार्यास्तेषां समी16 पेऽवशिष्यमाणं श्रुतं गृह्णाति । यदा च परिपूर्णमपि विवक्षितयुगसम्भवि श्रुतं गृहीतं तदा
यद्यात्मनः प्रतिभादिकं सामर्थ्यमस्ति ततः "दंसणजुत्ताइअत्थो व" ति दर्शनविशुद्धिकारणीया गोविन्दनियुक्तिः आदिशब्दात् सम्म(न्मोति-तत्त्वार्थप्रभृतीनि च शास्त्राणि तदर्थः-तत्प्रयोजनः प्रमाणशास्त्रकुशलानामाचार्याणां समीपे गच्छेत् ॥२८८०॥ अथ चारित्रार्थमिति द्वारमाह
पडिकुट्ठ देस कारण गया उ तंदुवरमि निति चरणट्ठा ।
असिवाई व भविस्सइ, भूए व वयंति परदेसं ॥ २८८१॥ सिन्धुदेशप्रभृतिको योऽसंयमविषयः स भगवता 'प्रतिक्रुष्टः' न तत्र विहर्तव्यम् । परं तं प्रतिषिद्धदेशमशिवादिभिः कारणैर्गताः ततो यदा तेषां कारणानाम् 'उपरमः' परिसमाप्तिर्भवति तदा चारित्रार्थ ततोऽसंयमविषयाद् निर्गच्छन्ति, निर्गत्य च संयमविषयं गच्छन्ति । यद्वा तत्र
क्षेत्रे वसतां निमित्तबलेन ज्ञातम् , यथा--अशिवादिकमत्र भविष्यति, अथवा 'भूतम्' उत्प25 न्नमत्राशिवादि, अतः परदेशं व्रजन्ति । एवमादिभिः कारणैरध्वानं गन्तव्यतया निश्चित्य गच्छोपग्रहकरमिदमुपकरणं गृह्णन्ति ॥ २८८१ ॥ सकिं पुनस्तत् ? इति अत आह-~
चम्माइलोहगहणं, नंदीभाणे य |म्मकरए य ।
परउत्थियउवकरणे, गुलियाओ खोलमाईणि ॥ २८८२ ॥ धर्मशब्देन चर्ममयं तलिकाद्युपकरणं गृह्यते, आदिशब्दात् सिक्ककादिपरिग्रहः । लोहग्रह
१एतदने त. डे. मो. ले० प्रतिषु ग्रन्थानम-४५०० इति वत्तते ॥ २० एतन्मध्यगतः पाठः भा० त० डे. नास्ति।
4 एतन्मध्यगतमवतरणं कां. एव वर्तते ॥
४ प्रस्यन्तरेषु कचित् चम्मकरए इति दृश्यते । एवमप्रेऽपि बोदव्यम् ॥ Jain Education International
For Private & Personal Use Only
www.jainelibrary.org