SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथाः २८७२-७८] प्रथम उद्देशः । ८१५ कारणानि तानि तृतीयभङ्गेऽपि भवन्तीति भावः । अत्र च भङ्गे आदौ 'तमः' अन्धकारं रात्रिपदमित्यर्थः, अन्ते च 'प्रकाश' दिवापदम् । 'अन्तिमः' चतुर्थो भङ्गः सोऽपि 'एवमेव ' अहिदष्टाद|वागाढकारणे प्रति सेवितव्यः, नवरमसौ द्विधाऽप्यप्रकाशो मन्तव्य इति ॥ २८७३ ॥ ॥ २८७४ ॥ गतं ग्लानद्वारम् । अथ प्रथम द्वितीया - सहिष्णुपदानि व्याचष्टे - पढमबिया रस्सा, असहुस्स हवेज अहव जुअलस्स । कालम्मि दुरहियासे, भंगचउक्केण गहणं तु ॥ २८७५ ।। प्रथमः- क्षुधा परीषहो द्वितीयः - पिपासापरीपहस्ताभ्यामातुरस्य, 'असहिष्णोर्वा' स्थूलभद्रस्वामिलघुभ्रातृश्रीयककल्पस्य युगलं-वाल-वृद्धरूपं तस्य वा असहिष्णोः, काले वा 'दुरधिसहे' अवमौदर्यलक्षणे भङ्गचतुष्केणापि ग्रहणं कर्त्तव्यम् ॥ २८७५ ॥ एमेव उत्तिमडे, चंदगवेज्झसरिसे भवे भंगा | उभयवगासो पदम, आदी अंते य सव्वतमो ॥ २८७६ ॥ चन्द्रको नाम - चक्राष्टको परिवर्तिन्याः पुत्तलिकाया वामांक्षिगोलकः तस्य वेधः - ताडनं तत्सदृशे - तद्वद् दुराराधे 'उत्तमार्थे' अनशने प्रतिपन्ने सति यदि कदाचिदसमाधिरुत्पद्यते तदा 'मा नमस्कारं नाराधयिष्यति, असमाधिमृत्युना वा मा म्रियताम्' इति कृत्वा चत्वारोऽपि भङ्गाः प्रयोक्तव्या भवेयुः । तत्र च प्रथमो भङ्ग उभयप्रकाशः, द्वितीयो भङ्ग आदौ प्रकाशवान् अन्ते 15 तमखान्, तृतीयो अन्ते प्रकाशवान् आदौ तमखान्, चतुर्थो भङ्गः 'सर्वतमः' उभयथाऽपि तमोयुक्तः, रात्रौ गृहीत्वा रात्रावेव भोगभावादिति ॥ २८७६ ॥ अथाध्वद्वारं सविस्तरं व्याचिख्यासुराह- १ 'आदी' आद्ये ग्रहणाख्यपदे 'तमः' कां० ॥ २ 'अन्ते च' भुक्तलक्षणे पदे 'प्र' कां० ॥ ३ 'द्विधाऽप्यप्रकाशः' ग्रहण- भोगयोरुभयोरपि रात्रिपदयुक्तो मन्त' कां० ॥ अद्वाणमिव होजा, भंगा चउरो उ तं न कप्पइ उ । दुविहा उ होंति उदरा, पोट्टे तह धन्नभाणे य ॥ २८७७ ॥ अध्वनि वा वर्त्तमानानां चत्वारोऽपि भङ्गा भवेयुः परं 'तेंद्' अध्वगमनं कर्तुमूर्द्धदरे साधूनां न कल्पते । ते च दुरा द्विविधाः, तद्यथा - पोहदरा धान्यभाजनदराश्च । तत्र पोट्टम् - उदरं तद्रूपा दराः पोदराः, धान्यभाजनानि - कटपल्यादयस्तान्येव दरा धान्यभाजनदराः । तेरा ऊर्द्ध यत्र पूर्यन्ते तदूर्द्धदरमुच्यते ॥ २८७७ ॥ << अँमुमेवार्थं सविशेषं भणन् प्रायश्चित्तं च दर्शयन्नाह - उद्दद्दरे सुभिक्खे, अद्धाणपत्रजणं तु दप्पेण | लहुगा पुण सुद्धपए, जं वा आवजई जत्थ ॥ २८७८ ॥ ऊर्द्धदरम्-अनन्तरोक्तं सुभिक्षं - सुलभभैक्षम् । अत्र चत्वारो भङ्गाः - - ऊर्द्धदरमपि सुभक्षमपि १ ऊर्द्धदरमसुभिक्षं २ सुभिक्षं नोर्द्धदरं ३ नोर्द्धदरं न सुभिक्षम् ४ । अत्र द्वितीय ४° काशो भवति, ग्रहण- भोग पदयोरुभयोरपि दिवापदयुक्त इति भावः, एवं द्विती को ० ॥ ५ 'तम्' अध्वानं गन्तुमूर्खदरे न क भा० ॥ ६ एतविगतमवतरणं को एव वर्त्तते ॥ For Private & Personal Use Only 5 Jain Education International 10 20 25 www.jainelibrary.org
SR No.002512
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 03
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages364
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy