________________
८१४
16
सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [रात्रिभक्तपकृते सू० ४२ चन्द्रोद्योतादिषु को दोपः ? को दोषः ? इत्युत्तरप्रदानेन द्वितीयं प्रायश्चित्तस्थानं 'लगति' प्राप्नोति । अथवा 'अभीक्ष्णग्रहणे' पुनःपुनरासेवायाम् , अथवा 'वस्तुनः' आचार्योपाध्यायादिरूपस्य यः 'अतिचारः' रात्रिभक्तलक्षणस्तस्मात् प्रायश्चित्तवृद्धिर्भवति । यत एवं प्रायश्चित्तजालम्
अतो न कल्पते चतुर्विधमपि रात्रिभक्तम् । कारणसद्भावे पुनः कल्पते ॥ २८७१ ॥ 6 तान्येव कारणानि दर्शयति
विइयपयं गेलन्ने, पढमे बिइए य अणहियासम्मि ।
फिट्टइ चंदगवेझं, समाहिमरणं व अद्धाणे ॥ २८७२ ॥ 'द्वितीयपदं नाम' 'दिवा गृहीतं दिवा भुक्तम्' इत्यादिचतुर्भङ्गीप्रतिसेवनात्मकं तदागाढे ग्लानत्वे आसेवितव्यम् । प्रथमद्वितीयपरीषहातुरतायां वा, “अणहियासम्मि" ति असहिष्णु10 तायां वा, चन्द्रकवेधं नामानशनं तदसमाधिमुपगतस्य 'स्फिटति' न निर्वहतीति भावः, अत. स्तस्य यथा समाधिमरणं भवति तथा चतुर्भङ्गयाऽपि यतितव्यम् । अध्वनि वा चतुर्खपि भङ्गेषु ग्रहणं कर्तव्यमिति द्वारगाथासमासार्थः ॥ २८७२ ॥ _अथैनामेव विवरीषुग्लानत्वद्वारं व्याख्यानयति
पइदिणमलब्भमाणे, विसोहि समइच्छिउं पढम भंगो। दुल्लभ दिवसंते वा, अहि-मूलरुयाइसुं विइओ ॥ २८७३ ॥ एमेव तइयभंगो, आइ तमो अंतए पगासो उ ।।
दुहओ वि अप्पगासो, एमेव य अंतिमो भंगो ॥ २८७४ ॥ ___यदा ग्लानस्य प्रतिदिनं विशुद्धं भक्तपानं न लभ्यते तदा पञ्चकपरिहाण्या ये विशोधिको
व्यादयो दोषास्तेषु प्रतिदिवसं ग्रहीतव्यम् , यावचतुर्लघुकाः प्रायश्चित्तम् ; यदा तदपि समति20 क्रान्तस्तदा प्रथमभङ्गो भवति', रात्रौ परिवास्य दिवा दातव्यमित्यर्थः । तथा 'दुर्लभं' ग्लानप्रायोग्यमशनादि द्रव्यं तच्च गृहीत्वा यावत् प्रतिश्रयमागच्छति तावदम्तमुपगतः सविता अतो दिवा गृहीत्वा रात्रौ ग्लानस्य दातव्यम् ; अथवा कश्चिद् दिवसान्ते 'अहिना' सर्पण खायेत, शूलरुग् वा कस्यापि तदानीमुद्धावेत, आदिग्रहणाद् विष-विसूचिकादिष्वागाढेपु समुत्पन्नेषु सर्पडङ्काद्युपशमनलब्धप्रत्ययमगदाद्यौषधमानीय यावद दीयते तावदस्तं गतो रविः अतो रात्रावपि 23 दातव्यम् , एष द्वितीयो भङ्गः । एवमेव तृतीयो भङ्गो वक्तव्यः, यानि प्रथम-द्वितीयभङ्गयोः १ अग्नि-चन्द्रो त० डे० ॥
२°त्तरोत्तरं भणन् द्विती° को ॥ ३ °नः' भिक्षु-वृषभादेः 'अतिचाराद' अतिक्रमणाद् उत्तरोत्तरप्रायश्चित्तवृद्धिर्भवति । यत एतावत् प्रायश्चित्तजालमुपढौकते अतो न भा० ॥ ४°शोधिकादयो दो भा० कां० विना । “विसोहि त्ति विसोहि कोडी" इति चूर्णी ॥
५°ति, दिवा गृहीत्वा दिवा भुङ्क्ते इत्यर्थः भा० । “जता पतिदिवसं ण लम्मति तदा 'विसोहि' ति विसोहिकोडी पणगातो आरम्भ जाव चउलहुगा जत्थ पच्छित्तं तं पति दिवसं गेण्हति; जाधे चउलहगं वोलीणो ताधे पढमभंगेणं दिया घेत्तुं दिया मुंजति, परिवासितमित्यर्थः ।" इति चूर्णी विशेषचूर्णौ च ॥
६ आदिशब्दाद् विष° भा०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org