________________
15
८१२
सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ रात्रिभक्तप्रकृते सू० ४२ अथ यदुक्तम् 'चन्द्र-प्रदीपादिप्रकाशे को दोषः ?' इति तत्र परिहारमाह
जह वि य पिपीलियाई, दीसंति पैईव-जोइउज्जोए ।
तह वि खलु अणाइन्न, मूलवयविराहणा जेणं ।। २८६४ ॥ यद्यपि प्रदीप-ज्योतिषोः उपलक्षणत्वात् चन्द्रस्य चोद्योते पिपीलिकादयो जन्तवो दृश्यन्ते 5 तथापि 'खलु' निश्चयेन अनाचीर्णमिदं रात्रिभक्तम् । कुतः ? इत्याह- मूलवताना-प्राणाति. पातविरमणादीनां महाव्रतानां प्रागुक्तनीत्या विराधना येन रात्रिभक्ते भवति अतो रात्रौ न भोक्तव्यम् ॥ २८६४ ॥ अथ "गच्छम्मि य" ति पदं व्याचष्टे
गच्छगहणेण गच्छो, भणाइ अहवा कुलाइओ गच्छो।
गच्छग्गहणे व कए, गहणं पुण गच्छवासीणं ॥ २८६५॥ 10 गच्छग्रहणेन 'गच्छः' साधुसमूहरूपो रात्रिभक्तप्रतिसेवकान् ‘भणति' नोदयतीति मन्तव्यम् ,
यथा चतुर्थ्यां नावि चतुर्थे पदे । अथवा गच्छग्रहणेन 'कुलादिकः' कुल-गण-सङ्घरूपो गच्छो नोदयतीति मन्तव्यम् , यथा सर्वाखपि नौषु । यद्वा गच्छग्रहणे कृते गच्छवासिनां ग्रहणं विज्ञेयम् , तेषामेवेदं प्रायश्चित्तनिकुरुम्बं न जिनकल्पिकादीनाम् ॥ २८६५ ॥ इह पूर्व भाष्यकारेण प्रथमा नौः परिस्पष्टमुपदर्शिता न द्वितीयादयः, अतो यथाक्रमं तासां व्याख्यानमाह
बिइयादेसे भिक्खू, भणंति दुट्ठ में कयं ति वोलेंति ।
छल्लहु वसभे छग्गुरु, छेदो मूलाइ जा चरिमं ॥ २८६६ ॥ 'द्वितीयादेशो नाम' द्वितीयनौसंस्थितः प्रायश्चित्तप्रकारः, तत्र तथैव रात्रौ भुक्त्वा गुरूणां निवेदिते भिक्षवो भणन्ति-दुष्ठु "भे" भवद्भिः कृतमिति । तच्च वचनं यदि ते 'वोलयन्ति'
न प्रतिपद्यन्ते तदा षड्लघुकम् , वृषभवचनातिक्रमे षड्गुरुकम् , आचार्याणामतिक्रमे च्छेदः, 20 कुलस्थविरस्याप्रमाणीकरणे मूलम् , गणस्थविरस्याप्रमाणनेऽनवस्थाप्यम्, सङ्घस्थविरस्यातिक्रमणे पाराञ्चिकम् । एवं मणिप्रकाशादिष्वपि मन्तव्यम् , नवरं मणिप्रकाशे षड्गुरुकात् प्रदीपप्रकाशे छेदाद् उद्दीप्ते मूलादारब्धव्यम् । अभीक्ष्णसेवायां तु सप्तभिवारैः पाराञ्चिकम् । भावना तु प्रागेव कृतेति ॥ २८६६ ॥ तृतीया भाव्यते
तइयादेसे भोत्तूण आगया नेव कस्सइ कहिंति ।
तेसऽनतो व सोचा, खिसंतऽह भिक्खुणो ते उ ॥ २८६७ ॥ 'तृतीयादेशे' तृतीयायां नावि तथैव भुक्त्वा समागताः सन्तो नैव कस्यापि कथयन्ति । नवरं भिक्षवस्तेषां परस्परं संलापं श्रुत्वा, तैर्वाऽन्यस्य कस्यापि श्रावकादेः कथितं ततो वा १ पईवमाइउज्जोए भा० । एतदनुसारेणैव भा. टीका । दृश्यतां टिप्पणी ३ ॥ २ मूलगुणविराहणा भा० । एतदनुसारेणैव भा० टीका । दृश्यतां टिप्पणी ४ ॥ ३ प्रदीपाद्युद्योते पिपीलि° भा० ॥
४ 'मूलगुणानां' प्राणा भा० ॥ ५म्, पुनःशब्दो गच्छवासिनामेव रात्रिभक्तप्रतिसेवनासम्भव इति विशेषणार्थः, ततश्च तेषामेवे का ॥ ६ कृतेति न भूयो भाव्यते ॥ २८६६ ॥ तहया भा• कां० ॥
25
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org